३२०
मनुस्मृतिः।
[अध्यायः८
मनुष्येनि ॥ तत्र मनुष्यमारणे प्राजकस्यानवधानाद्यानेन कृतं शीघ्रमेव
चरदण्डोत्तमसाहसं भवेन्न तु मारणरूपः । 'प्राणभृत्सु महत्स्वर्धम्' इति
श्रवणात् । गोगजादिषु महत्सु प्राणिषु मारितेषु उत्तमसाहसस्याधं पञ्चगतपणो
दण्डो भवेत् ॥ २९६ ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ २९७ ।।
शुद्रेति ॥ क्षुद्रकाणां पन्चूनां जातितो विशेषापदिष्टेतरेषां वनचरादीनां वयसा
च किशोरादीनां मारणे द्विशतो दण्डः स्यात् । शुभेषु मृगेषु रुरुपृषतादिषु पक्षिषु
च शुकहंससारसादिषु पक्षिषु हतेषु पञ्चाशहण्डो भवेत् ॥ २९७ ॥
गर्दभाजाविकानां तु दण्डः स्यात्पश्चमापिकः ।
मापिकस्तु भवेद्दण्डः श्वमूकरनिपातने ॥ २९८ ॥
गभेति ।। गर्दभच्छागेडकादीनां पुनर्मारणे पञ्जरूप्यमापकपरिमाणो दण्डः
न्यात् । नचात्र हैरण्यमाषग्रहणं, उत्तरोत्तरलघुदण्डाभिधानात् । श्वसूकरमारणेपु
दुना रौप्यमापपरिमाणो दण्डः स्यात् ॥ २९८ ॥
भार्या पुत्रश्च दासश्च प्रेष्यो भ्राता च सोदरः।
प्राप्तापराधास्ताड्याः स्यू रज्या वेणुदलेन वा ॥२९९॥
भार्येति ॥ भार्यापुत्रादयः कृतापराधा रज्वा वातिलघुवेणुशलाकया ताड्या
भवेयुः । शिक्षार्थं ताडनविधानादन दण्डापवादः ॥ २९९ ॥
पृष्ठतस्तु शरीरस नोत्तमाओं कथंचन ।
अतोऽन्यथा तु प्रहरन्प्राप्तः स्याचौरकिल्विषम् ॥ ३०० ॥
पृष्टन इति ॥ रज्वादिभिरपि देहस्य पृष्टदेशे ताडनीयाः नतु शिरसि ।
उल अतिरेकेण प्रहरणे वाग्दण्डधनदण्डरूपं चौरदण्डं प्राप्नुयात् ॥ ३०० ॥
एपोऽखिलेनाभिहितो दण्डपारुप्यनिर्णयः ।
स्तेनस्यातः प्रवक्ष्यामि विधि दण्डविनिर्णये ॥ ३०१॥
एप इति ॥ एप दण्डपारुप्यनिर्णयो दि.शेपेणोकः । अत जय चौरदण्डविनि-
ये विधानं वक्ष्यामि ।। ३०१ ॥
परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः।
स्तेनानां
- यशो राष्ट्रं च वर्धते ॥ ३०२॥
परममिति ॥ चौराणां नियमने राजा परममुत्कृष्टं यत्नं कुर्यात् । यस्साञ्चौरनिग्र-
हाम्राज्ञः ख्यातिनिरुपद्रवतया राष्ट्रं च वृद्धिमेति ॥ ३०२ ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः।
सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ३०३ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
