..
ध्यायः ८] मन्वर्थमुक्तावलीसंवलिता।
३१९
यानस्येति ॥ यानस्य रथादेातुः सारथ्यादेर्यानस्वामिनश्च यस्य तद्यानं तेषां
न्ननास्यादीनि दश निमित्तानि दण्डमतिक्रम्य वर्तन्ते । एषु निमित्तेषु सन्सु
णिमारणे द्रव्यनाश च प्रकृते यानस्वामिनां दण्टो न भवतीति मन्वादय आहुः ।
सद्ध्यतिरिक्तनिमित्ते च पुनर्दण्डोऽनुष्टीयते ॥ २९० ॥
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ २९१ ।।
छेदने चैव यत्राणां योकरश्म्योस्तथैव च ।
आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ २९२ ॥
छिन्नेति ॥ छेदन इति ॥ नासायां भवं नास्यं । शरीरावयवत्वाद्यत् । सा चेह
शिवर्दनासासंबन्धिनी रजुः । छिन्ननास्यरजौ बलीवादिके, भग्नयुगाख्ये काटे,
दिौ भूमिवैषम्यादिना तिरश्चीनं वागते, तथा चक्रान्तः प्रविष्टाक्षकाष्ठभङ्गे यन्त्राणां
बिन्धनानां छेदने, योऋस्य पशुग्रीवारजौ, रश्मेः प्रहरणस्य च छेदने, अपस-
सरेत्युच्चैः शब्दे सारथ्यादिना कृते च यानेन प्राणिहिंसाव्यविनाशयोः कृतयोः
स्थ्यादेर्दण्डो नास्तीति मनुराह ॥ २९१ ॥ २९२ ॥
यत्रापवर्तते युग्यं वैगुण्यात्माजकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ।। २९३ ।।
यत्रेति ॥ यत्र सारथेरकौशलाद्यानमन्यथा व्रजति तत्र हिंसायामशिक्षितसारथ्य-
योगस्वामी द्विशतं दण्डं दाप्यः स्यात् ॥ २९३ ॥
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति ।
युग्यस्थाः प्राजकेऽनाते सर्वे दण्ड्याः शतं शतम् ॥२९४॥
प्राजक इति ॥ यदि सारथिः कुशलः स्यात्तदा सारथिरेवोक्तद्विशतं दमं वक्ष्य-
गं च 'मनुष्यमारणे' इत्यादिकं दण्डमर्हति न स्वामी। अकुशले तु तस्सिन्सारथि-
मिव्यतिरिक्ता अन्येऽपि यानारूढा अकुशलसारथिकयानारोहणात्सर्वे प्रत्येकं
। शतं दण्ड्याः॥ २९४ ॥
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २९५ ॥
स चेदिति ॥ स चेत्प्राजकः संमुखागतैः प्रचुरगवादिभी स्थान्तरेण वा संरुद्धः
थगमनानवधानात्प्रत्यक्सर्पणाक्षमः संकटेऽपि स्वस्थतुरगान्प्रेरयन् , तुरगै रथेन
स्थावयवैर्वा प्राणिनो व्यापादयति तत्राविचारितो दण्डः कर्तव्य एव ॥ २९५ ॥
सकृदपराधे कीदृश इत्याह-
मनुष्यमारणे क्षिप्तं चौरवत्किल्विषं भवेत् ।
प्राणभृत्सु महत्वधं गोगजोष्ट्रहयादिषु ॥ २९६ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
