पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


कुल्लोकभट्टकृतमन्वर्थमुक्तावलीसंवलिता

मनुस्मृतिः।


प्रथमोऽध्यायः १

मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥

ॐनमो भगवते वासुदेवाय ।।

गौडे नन्दनवासिनाम्नि सुजनैर्वन्द्ये वरेन्द्र्या कुले।
श्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्ठोऽभवत् ।
काश्यामुत्तरवाहिजह्नुतनयातीरे समं पण्डितै-
स्तेनेयं क्रियते हिताय विदुषां मन्वर्थमुक्तावली ॥ १ ॥
सर्वज्ञस्य मनोरसर्वविदपि व्याख्यामि यद्वाड्मयं
युक्त्या तद्बहुभिर्यतो मुनिवरैरेतद्वहु व्याहृतम् ।।
तां व्याख्यामधुनातनैरपि कृतां न्याय्यां ब्रुवाणस्य मे
भक्त्या मानववाङ्मये भवभिदे भूयादशेषेश्वरः ॥ २ ॥
मीमांसे बहु सेवितासि सुहृदस्तर्काः समस्ताः स्थ मे
वेदान्ताः परमात्मबोधगुरवो यूयं मयोपासिताः ।
जाता व्याकरणानि बालसखिता युष्माभिरभ्यर्थये
प्राप्तोऽयं समयो मनूक्तविवृतौ साहाय्यमालम्ब्यताम् ॥ ३ ॥

द्वेषादिदोषरहितस्य सतां हिताय मन्वर्थतत्त्वकथनाय ममोद्यतस्य ।
दैवाद्यदि क्वचिदिह स्खलनं तथापि निस्तारको भवतु मे जगदन्तरात्मा ॥ ४ ॥

मानववृत्तावस्यां ज्ञेया व्याख्या नवा मयोद्भिन्ना ।
प्राचीना अपि रुचिरा व्याख्यातॄणामशेषाणाम् ॥ ५ ॥

 मनुमेकाग्रमासीनमित्यादि ॥ अत्र महर्षीणां धर्मविषयप्रश्ने मनोः श्रूयतामित्यु-