पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३१० मनुस्मृतिः। [ अध्यायः ८ काविति ॥ स्वयं मृतेयु पशुषु कर्णचर्मलालप्रवालान्नाभेरधोभागस्नायुरो- चनाः स्वामिनां दद्यात् । अन्यानि च चिह्नानि शृङ्गखुरादीनि दर्शयेत् ॥ २३४ ॥ अजाविके तु संरुद्ध वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात्पाले तत्किल्विषं भवेत् ॥ २३५ ॥ अनाविक इति ॥ अजाश्चाविकाश्चाजाविक 'गवाश्वप्रभृतीनि च' इति द्वन्द्वैकव- दावः । तस्मिन्नजाविके वृकैः परिवृते सति पालेऽनागच्छति यामजामेडकां वा बने वृको हन्यात्स पालस्य दोषः स्यात् ॥ २३५ ॥ तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यामुत्प्लुत्य वृको हन्यान पालस्तत्र किल्बिषी ॥ २३६॥ नामामिनि ॥ तासामजाविकानां पालेन नियमितानां संघीभूय वनेचर- नांनां यत्राद्यदि कश्चित्कुतश्चिदुप्लुत्यालक्षितो यां कांचिद्धन्यान्न पालस्तत्र दो- प्रभाक॥ २३६ ॥ धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः। शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ॥ २३७ ॥ धनुःशतमिनि ॥ चतुर्हस्तो धनुः । शम्या यष्टिस्तस्याः पातः प्रक्षेपो ग्रामसमी मासु दिक्षु चत्वारि हन्तशतानि, बीन्वा यष्टिप्रक्षेपान्यावत्पशुप्रचारार्थ सस्यवपना- दिसंरोधपरिहारः कार्यः । नगरसमीपे पुनरयं त्रिगुणः कर्तव्यः ॥ २३७ ॥ तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ।। २३८ ॥ तत्रापरिवृतमिति ॥ तस्मिन्परिहारस्थाने यदि केनचिददत्तावृतिकं धान्यमुप्यते तचन्पशवो भक्षेयुस्तत्र पशुपालानां नृपो दण्डं न कुर्यात् ॥ २३८ ॥ वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत् । छिद्रं च वारयेत्सर्व श्वसूकरमुखानुगम् ॥ २३९ ॥ वृतिमिति ॥ तत्र परिहारस्थाने क्षेत्रे वृति कण्टकादिमयीं तथाविधामुच्छ्रितां कुर्यात् । यामपरपार्थे उष्ट्रो न विलोकयेत्, तस्यां च यत्किंचिच्छिद्रं श्वसूकरमुख- वेशयोग्यं तत्सर्वमावृणुयात् ॥ २३९ ॥ पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथवा पुनः। सपालः शतदण्डा) विपालान्वारयेत्पशून् ॥ २४०॥ पथीति ॥ वर्त्मसमीपग्रामसमीपवर्तिनि वा परिहारस्थे क्षेत्रे दत्तवृतौ सपालः पशुः पालानिवारितो द्वारादिना कथंचित्प्रविष्टो यदा भक्षयति तदा पणशतं दण्ड्यः । पशोश्च दण्डासंभवात्पाल एव दण्ड्यः । विपालान्पुनर्भक्षणप्रवृत्तान्क्षेत्रर- क्षको निवारयेत् ॥ २४० ॥