पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ८ परेणेति ॥ दशाहादूर्व क्रीतं न त्यजेत् । नापि विक्रीतं विक्रयिको बलेन दापयेत् । विक्रीतं बलेन गृह्णन्परित्यजन्राज्ञा पट् शतानि पणान् दण्ड्यः ॥२२३॥ यस्तु दोपवती कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ २२४ ॥ यस्त्विति ॥ नोन्मत्ताया इति सामान्येनोक्तं दण्डविशेषाभिधानार्थमिदम् । उ. न्मादादिदोषानकथयित्वा दोषवती कन्यां वराय यः प्रयच्छति तस्य राजा स्वयमा- दरेण षषणवतिं पणान्दण्डं कुर्यात् । अनुशयप्रसंगेनैतत्कन्यागतमुच्यते ॥२२४ ॥ अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ २२५ ॥ अकन्येति ॥ नेयं कन्या क्षतयोनिरियमिति यो मनुष्यो द्वेषेण ब्रूयात्तस्या उक्त- दोषमविभावयन्पणशतं राजा दण्डं प्रकल्पयेत् ॥ २२५ ॥ पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः। नाकन्यासु कचिन्नृणां लुप्तधर्मक्रिया हि ताः ॥ २२६ ॥ युक्तश्चास्याकन्येति वादिनो दण्डः । यस्मात् पाणीति ॥ 'अर्यमणं नु देवं कन्या अग्निमयक्षत' इत्येवमादयो वैवाहिका मनुष्याणां मन्त्राः कन्याशब्द- श्रवणात्कन्यास्वेव व्यवस्थिताः । नाकन्याविषये कचिच्छास्त्रे धर्मविवाहसिद्धये व्यवस्थिता असमवेतार्थत्वात् । अतएवाह । ताः क्षतयोनयो वैवाहिकमन्त्रैः संस्क्रियमाणा अपि यस्मादपगतधर्मविवाहादिशालिन्यो भवन्ति । नासौ धर्यो विवाह इत्यर्थः । नतु क्षतयोनेवैवाहिकमन्त्रहोमादिनिषेधकमिदम् । 'या गर्भिणी संस्क्रियते' तथा 'वोढुः कन्यासमुद्भवम्' इति क्षतयोनेरपि मनुनैव विवाह- संस्कारस्य वक्ष्यमाणत्वात् । देवलेन तु-'गान्धर्वेषु विवाहेषु पुनर्वैवाहिको विधिः । कर्तव्यश्च त्रिभिर्वर्णैः समयेनाग्निसाक्षिकः' इति । गान्धर्वेपु विवाहेषु होममन्त्रादिवि- धिरुक्तः । गान्धर्वश्चोपगमनपूर्वकोऽपि भवति । तस्य क्षत्रियविषये सुधर्मत्वं मनुनोक्तम् । अतः सामान्यविशेषन्यायादितरविषयोऽयं क्षतयोनिविवाहस्थाधर्म- त्वोपदेशः ॥ २२६ ॥ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ २२७ ॥ पाणिग्रहणिका इति ॥ वैवाहिका मन्त्रा नियतं निश्चितं भार्यात्वे निमित्तम्, मन्त्रैर्यथाशास्त्रप्रयुक्तैर्भार्यात्वेन निष्पत्तेः । तेषां तु मन्त्राणां 'सखा सप्तपदी भव' इति मन्त्रेण कल्पनया सप्तमे दत्ते पदे भार्यात्वनिष्पत्तेः शास्त्रज्ञैनिष्पत्तिर्विज्ञेया । एवंच सप्तपदीदानात्प्राग्भार्यात्वानिष्पत्तेः सत्यनुशये जह्यान्नोर्वम् ॥ २२७ ॥