पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३०७ आत इत्यादि ॥ यदा व्याध्यादिपीडया कर्म न करोनि स्वस्थःसन् यादृग्भाषित तादृकर्म कुर्याद्वेतनं च चिरकालादपि लभेतैव ॥ २१६ ॥ यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ २१७ ॥ यथोक्तमिति ॥ यत्कर्म यथाभाषितं पीडितोऽन्येन कारयेत्सुस्थो वा न कुर्यान्नापि कारयेत् किंचिच्छेषस्य कृतस्य कर्मणो वेतनं न देयम् ॥ २१७ ॥ एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्म समयभेदिनाम् ॥ २१८ ॥ एष धर्म इति ॥ एषा व्यवस्था वेतनादानाख्यकर्मणो निःशेषेणोक्ता । अतोऽन- न्तरं संविद्ध्यतिक्रमकारिणां दण्डादिव्यवस्थां वदिष्यामि ॥ २१८ ॥ यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ २१९ ॥ य इति ॥ ग्रामदेशशब्दाभ्यां तबासिनो लक्ष्यन्ते । सङ्घो वणिगादिसमूहः इदमस्माभिः कर्तव्यं परिहार्यतामित्येवंरूपं संकेतं सत्यादिशपथेन कृत्वा तन्मध्ये यो नरो लोभादिना निष्कामेत्तं राजा राष्ट्रान्निर्वासयेत् ॥ २१९ ॥ निगृह्य दापयेचैनं समयव्यभिचारिणम् । चतुःसुवर्णान्षनिष्काश्छतमानं च राजतम् ॥ २२० ॥ निगृह्येति ॥अथ चैनं संविध्यतिक्रमकारिणं निबोध्य चतुरः सुवर्णान्धनिप्कान्प्र- त्येकं चतुःसुवर्णपरिमितान् राजतं च शतमानं विंशत्यधिकरक्तिकाशतत्रयपरिमाणं त्रयमेतद्विषयलाघवगौरवापेक्षया समन्वितं व्यस्तं वा राजा दण्डं दापयेत् ॥२२० ॥ एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः। ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ २२१॥ एतदिति ॥ ग्रामेषु ब्राह्मणजातिसमूहेषु संविद्ध्यतिक्रमकारिणामेतद्दण्डविधिं धर्म- प्रधानो राजानुतिष्ठेत् ॥ २२१ ॥ क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्रव्यं दद्याचैवाददीत वा ॥ २२२ ॥ क्रीत्वेति ॥क्रीत्वा विक्रीय वा किंचिद्र्व्यं विनश्वररूपं स्थिराध भूमिताम्रपट्टादि यस्य लोके पश्चात्तापो जायते न साधु मया क्रीतमिति स क्रीतं दशाहमध्ये प्रत्य- पयेत् । विक्रीतं वा गृह्णीयात् ॥ २२२ ॥ परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददचैव राज्ञा दण्ड्यः शतानि षट् ॥ २२३ ॥