पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


। मनुस्मृतिः। [अध्यायः ८ नापि इमेधिन उच्यन्ते । सामीप्यात् । अपरे मैत्रावरुणयोप्रतिप्रस्थातृब्राह्म- णाच्छंसिप्रस्तोतारस्ते मुख्यविग्गृहीतदक्षिणार्धग्रहणेनार्धिन उच्यन्ते । तृतीयिनो. ऽच्छाबाङ्नेष्ट्रनीध्रप्रतिहारस्ते मुख्यविंग्गृहीतस्य तृतीयमंशं लभन्ते । पादि- नस्तु ग्रावस्तुदुन्नेतृपोतृसुब्रह्मण्या एते मुख्यस्विंग्गृहीतस्य चतुर्थमंशं लभन्ते । पुतञ्च ‘पड् पद द्वितीयेभ्यश्चतस्रः चतस्त्रश्च तृतीयेभ्यस्तिस्रस्तिस्त्रश्चतुर्थेभ्यः' इति सूत्रयता कात्यायनेन स्फुटीकृतम् ॥ २१० ॥ संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ २११॥ संभूयेति ॥ मिलित्वा गृहनिर्माणादीनि स्वकर्माणि लोके स्थपतिसूत्रधादि- भिश्च मनुष्यैः कुर्वद्भिरनेन यज्ञदक्षिणाविधिनाश्रयणेन विज्ञानव्यापाराद्यपेक्षया भागकल्पना कार्या ॥२११॥ इदानी दत्तानपकर्माह- धर्मार्थ येन दत्तं स्यात्कसैचिद्याचते धनम् । पश्चाच न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ २१२ ॥ धर्मार्थमिति ॥ येन यागादिकर्मार्थ कस्मैचिद्याचमानाय धनं दत्तं प्रतिश्रुतं वा, पश्चाच्च तद्धनमसौ यागार्थ न विनियुञ्जीत तदा तद्दत्तमपि ग्राह्यं प्रतिश्रुतं च न देयम् । यदाह गौतमः-'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् ॥ २१२ ॥ यदि संसाधयेत्तत्तु दोल्लोभेन वा पुनः। राज्ञा दाप्यः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिः॥२१३ ॥ यदीति ॥ यदि तहत्तमसौ गृहीत्वा लोभादहंकाराद्वा न त्यजति, प्रतिश्रुतं वा धनं बलेन गृह्णाति तदा तस्य चौर्यपापस्य संशुद्ध्यर्थं राज्ञा स्वर्ण दण्डं दापनीयो भवति ॥ २१३ ॥ दत्तस्यैषोदिता धा यथावदनपक्रिया । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्सानपक्रियाम् ॥ २१४ ॥ दत्तस्येति ॥ एतहत्तस्याप्रतिपादनं धर्मादनपेतं तदुक्तम् । अतोऽनन्तरं भृतेरस- मर्पणादिकं वक्ष्यामि ॥ २१४ ॥ भृतो ना? न कुर्याद्यो दोत्कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥२१५॥ भृत इति ॥ यो ऋतिपरिक्रीतो व्याध्यपीडितो यथानिरूपितं कर्माहंकारान्न कुर्यात्सकर्मानुरूपेण सुवर्णादिकृष्णलान्यष्टौ दण्डनीयः । चेतनं चास्य न देयम् ॥ २१५॥ आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥ २१६ ॥