अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता।
नोन्मत्ताया इति ॥ उन्मत्तायास्तथा कुष्टवत्या या चानुभूतमैथुना तस्या ब्राह्मणा-
दिविवाहात्पूर्वमुन्मादादीन्दोषान्वरस्य कथयित्वा दण्डाहों न भवति । तेनाकथने
दण्ड इति गम्यते । 'यस्तु दोषवती कन्या' इति वक्ष्यति ॥ २०५॥
अथ संभूयसमुत्थानमाह-
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयोंऽशः सह कर्तृभिः॥ २०६॥
ऋत्विगिति ॥ यज्ञे कृतवरण ऋत्विक् यदि किंचित्कर्म कृत्वा व्याध्या-
दिना कर्म त्यजति तदा तस्येतरविंग्भिः पर्यालोच्य कृतानुसारेण दक्षिणांशो
देशः ॥ २०६॥
दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ २०७ ।।
दक्षिणास्विति ॥ माध्यंदिनसवनादौ दक्षिणाकाले दक्षिणासु दत्तासु व्याध्या-
दिना कर्म परित्यजन्न तु शाख्यात्स कृत्स्नमेव दक्षिणाभागं लभेत।कर्मशेषं प्रकृतम-
न्येन कारयेत् ॥ २०७ ॥
यसिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन्सर्व एव वा ॥ २०८ ॥
यस्मिन्निति ॥ यस्मिन्कर्मण्याधानादौ अङ्गमङ्गं प्रति या दक्षिणा यत्संबन्धेन
श्रुताः स्युः स एव ता आददीत न तत्तद्भागमानं सर्वे विभज्य गृह्णीरन्निति
संशयः ॥ २०८ ॥
अत्र सिद्धान्तमाह-
रथं हरेत चाध्वर्युब्रह्माधाने च वाजिनम् ।
होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये ॥२०९ ॥
स्थमिति ॥ केषांचिच्छाखिनामाधानेऽध्वर्यवे रथो देयत्वेनाम्नायते, ब्रह्मणे वे-
गवानश्वः, होने चाश्वः, उद्गाने सोमक्रयवहनशकटम् , अतो व्यवस्थाम्नानसाम-
ाद्या दक्षिणा यत्संबन्धत्वेन श्रूयते स एव तामाददीत ॥ २०९ ॥
संप्रतिपत्तिविधाने दक्षिणाविभागमाह-
सर्वेषामधिनो मुख्यास्तदर्थेनार्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थाशाश्च पादिनः॥ २१०॥
सर्वेषामिति ॥ 'तं शतेन दीक्षयति' इति श्रूयते। तत्र सर्वेषां पोडशानामृत्विजां
मध्ये ये मुख्या ऋत्विजो होत्रध्वर्युब्रह्मोद्गातारः समग्रदक्षिणायास्तेऽर्धहरा अष्ट-
चत्वारिंशद्बोभाजो भवन्ति । अतएव कात्यायनेन ‘यवादशायेभ्यः' इति प्रत्येक
द्वादशगोदानं विहितम् । यद्यपि तस्यार्धं पञ्चाशद्भवति तथापीह न्यूनार्धग्रहणे-
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
