पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३०१

साक्ष्येति ॥ प्रथमनिक्षेपे साक्ष्यभायवे स्वकीयसभ्यैश्चारपुरुषैरतिक्रान्तबाल्यैः सौम्यादिभिर्नुपोपद्रवादिव्याजाभिधायिभिर्हिरण्यानि तत्त्वेन तत्र निक्षेपयित्वा तैरेव चारपुरुषैःस निक्षेपधारी प्राड्विवाकेन चारपुरुषनिक्षिप्तसुवर्णं याच्यः ॥१८२ ॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
न तत्र विद्यते किंचिद्यत्परैरभियुज्यते ॥ १८३ ॥॥

स यदीति ॥ स निक्षेपधारी यथान्यस्तं समुद्रं वा यथाकृतं कटकमुकुटाकारेण रचितं यदि तथैव प्रतिपद्येत सत्यमस्ति गृह्यनामिनि तदा परेण पूर्वनिक्षेप्ला प्राविवाकवेदिना यन्निक्षिप्तमित्यभियुज्यते तत्र न किंचिदस्तीति ज्ञातव्यम् ॥ १८३ ॥

तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि ।
उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ १८४॥॥

तेषामिति ॥ तेषां चारपुरुषाणां यन्निक्षिप्तं हिरण्यं यथान्यतस्तं यदि तन्न दद्यात्तदा द्वावपि निक्षेपो ज्ञापकचारसंवन्धिनौ संपीड्य दापनीयः स्यादित्येवंरूपो धर्मस्य धारणा निश्चयः। 'यो निक्षेपम्' इत्यादिश्लोकचतुष्टयस्य चेदृश एव पाठक्रमो मेधातिथिभोजदेवादिभिर्निश्चितः । गोविन्दराजेनतु 'साक्ष्यभावे प्रणिधिभिः' इति श्लोकोऽन्त एव पठितः तदा च नार्थसंगतिः न वा वृद्धान्नायादरः ॥ १८४ ॥

निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ १८५॥॥

निक्षेपेति ॥ निक्षिप्यत इति निक्षेपः । मुद्राङ्कितमगणितं वा यन्निधीयते स उपनिधिः । ब्राह्मणपरिव्राजकवदुपदेशभेदः । तो निक्षेपोपनिधी निक्षेप्तर्युपनिधातरि जीवति प्रत्यनन्तरे तदीयपुत्रादौ तदनन्तरे तद्धनाधिकारिणि कदाचिन्न निक्षेपधारिणा देयौ । यतस्तस्य पुत्रादेरपि पितुरसमर्पणविनाये तो निक्षेपोपनिधी नश्यतः। पुत्रादेः पितुश्च पुनरविनाशे समर्पणे च कदाचिदविनाशिनौ स्यातां, तस्मादनर्थसंदेहान्न देयौ ॥ १८५ ॥

खयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे ।
न स राज्ञा नियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ १८६ ॥॥

स्वयमेवेति ॥ निक्षेप्तर्मृतस्य निक्षेपधारी तद्धनाधिकारिणि पुत्रादौ तदनभ्यर्थितः स्वयमेव यः समर्पयति स राज्ञा निक्षेप्तुः पुत्रादिभिर्वान्यदपि त्वयि निक्षिप्तमस्तीति नाक्षेप्तव्यः ॥ १८६॥

अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ १८७ ॥

यदि कथचिद्भ्रान्तिः स्यात्तदा अच्छलेनैवेति॥तत्रस्थे धनान्तरसद्भावलक्षणवाक्छलादिपरिहारेणैव प्रीतिपूर्वकं निश्चिनुयान्नतु झटिति दिव्यादिदानेन । तस्य निक्षेपधारिणः शीलमवेक्ष्य धार्मिकोऽयमिति ज्ञात्वा सामप्रयोगेण निश्चिनुयात् ॥ १८७ ॥

मनु० २६