पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ८ यः साधयन्तमिति ॥ योऽधमों राजवल्लभोऽहमिति गर्वादुत्तमणं स्वेच्छया धनं साधयन्तं नृपे निवेदयेत्स राज्ञा ऋणचतुर्थभागं दण्डः तस्य तद्धनं दाप- नीयम् ॥ ७७६ ॥ कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः । समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः॥ १७७ ।। कर्मणापीति ॥ समानजातिरपकृष्टजातिश्वाधमर्णो धनाभावे सति स्वजात्यनु- रूपकर्मकरणेनापि समं कुर्यात् । निवृत्तोत्तमाधमर्णव्यपदेशतया धनिकसममा- मानं कुर्यात् । समजातिरत्र ब्राह्मणेतरः कर्मणा क्षत्रविदशूद्वान्समानजातीयान् 'हीनांस्नु दापयेत्' इति कात्यायनेन विशेषितत्वात् । श्रेयान्पुनरुत्कृष्टजातिन कर्म कारयितव्यः किंतु शनैःशनैर्यथासंभवं तद्धनं दद्यात् ॥ १७७ ।। अनेन विधिना राजा मिथो विवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ १७८ ॥ अनेनेति ॥ अनेन प्रोनाप्रकारेण परस्परं विवदमानानामर्थिप्रत्यर्थिनां साक्ष्यादि- प्रमाणेन निर्णीतार्थानि कार्याणि विप्रतिपत्तिखण्डनेन राजा समीकुर्यात् ॥१७८॥ कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्याउँ निक्षेपं निक्षिपेद्बुधः ॥ १७९ ॥ कुलज इति ॥ सत्कुलप्रसूते, सदाचारवति, धर्मवेदिनि, सत्याभिधायिनि, बहुपुत्रादिपरिजने, ऋजुप्रकृतौ मनुष्ये, व्यभिचाराभावानिक्षेपं स्थापयेत् ॥१७९॥ यो यथा निक्षिपेद्धस्ते यमर्थ यस्य मानवः। स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ १८० ॥ यो यथेति ॥ यो मनुप्यो येन प्रकारेण मुद्रासहितं समुद्रं वा ससाक्षिकमसा- क्षिकं वा यमर्थ सुवर्णादि यस्य हस्ते निक्षिपेत्सोऽर्थस्तेन निक्षेप्ना तथैव ग्राह्यो यसायेन प्रकारेण समर्पणं तेनैव प्रकारेण ग्रहणं न्याय्यम् । समुद्रस्थापितसुवर्णा- देनिक्षेप्ता स्वयमेव मुद्रां भित्त्वा यदा वदति ममेदं तुलयित्वा समर्पयेत्यभिधानं दण्डाद्यर्थम् ॥ १८०॥ यो निक्षेपं याच्यमानो निक्षेप्नुर्न प्रयच्छति । स याच्या प्रड्विाकेन तन्निक्षेमुरसंनिधौ ॥ १८१ ॥ यो निक्षेपमिति ॥ यः पुरुषो देहि मे निक्षितं हिरण्यादि द्रव्यमित्येवं निक्षेपत्ता प्रार्थमानस्तस्य यदा न समर्पयति तदा निक्षेप्ता ज्ञापिते प्राडियाकेन तस्य निक्षेप्रसंनिधौ याचनीयः ॥ १८१ ।। किं कृत्वा किं याचनीय इत्याह- साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ १८२ ॥ ,