पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २९९ 2 ततश्च दातारं, आल्योऽधमणं, वणिक् क्रेतारं, राजा व्यवहारं बलेन न प्रवर्तयेत् । पूर्वश्लोकाभिहितबलनिषेधस्यैवायं प्रपञ्चः ॥ १६९ ॥ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि मूक्ष्ममप्यर्थमुत्सृजेत् ॥ १७० ॥ अनादेयमिति ॥ क्षीणधनोऽपि राजा नाग्राह्यमर्थं गृह्णीयात् । समृद्धोऽपि स्व- ल्पमपि ग्राह्यं धनं न त्यजेत् ॥ १७० ॥ आनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १७१ ॥ यस्मात् अनादेयस्येति ॥ अग्राह्यग्रहणाच्छास्त्रीयग्राह्यपरित्यागाच राज्ञः पौरैरसामर्थ्य ख्याप्यते । स प्रेत्याधर्मेण नरकादिभोगादिहाकी| विनश्यति ॥ १७१ ॥ खादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ १७२ ॥ स्वादानादिति ॥ न्यायधनग्रहणाद्वर्णानां सजातीयैः शास्त्रीयपरिणयनादिसं- बन्धात् । यद्वा वर्णसंसर्गाद्वर्णसंकरादित्यत्रापि रक्षणादिति योजनीयम् । प्रजानां दुर्बलानां बलवच्चोपि रक्षणात्सामर्थ्यमुपजायते नृपस्य । ततश्चासाविहलोकपरलो- कयोश्च वर्धते ॥ १७२ ॥ तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः॥ १७३ ॥ यत एवम् तस्माद्यम इति ॥ तस्माद्यम इव राजा वशीकृतकोधो जितेन्द्रियः स्वकीयेऽपि प्रियाप्रिये परित्यज्य यमस्य चेष्टया सर्वत्र साम्यरूपया वर्तेत॥१७॥ यस्त्वधर्मेण कार्याणि मोहात्कुन्नराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ १७४ ॥ यस्त्वधर्मेणेति ॥ यः पुनर्नृपतिर्लोभादिव्यवहारादधर्मेण व्यवहारदर्शनादीनि कार्याणि कुरुते तं दुष्टचित्तं प्रकृतिपौरविरागात्क्षिप्रमेव शत्रवो निगृह्णन्ति॥१७॥ कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ १७५ ॥ कामक्रोधाविति ॥ यो राजा रागद्वेषौ विहाय धर्मेण कार्याणि निरूपयति तं राजानं प्रजा भजन्ते समुद्रमिव नद्यः । नद्यो यथा समुद्रान निवर्तन्ते तेनवैकतां यान्ति प्रजा अपि तस्मान्नृपादनुवर्तिन्यस्तदेकताना भवन्तीति साम्यम् ॥ १७५ ॥ यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे । स राइ तचतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ १७६ ॥