अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता।
२९७
समुद्रेति ॥ स्थलपथजलपथयाने निपुणा इयदेशपर्यन्तमियत्कालपर्यन्तमू-
ह्यमाने सति एतावॉल्लाभो ग्रहीतुं युक्त इत्येवं देशलाभधनज्ञा वणिगादयो या
वृद्धि तथाविषये चावस्थापयन्ति सैव तत्र व्यवस्था तत्राधिगमं धनप्राप्ति प्रति
ग्रमाणम् ॥ १५७ ॥
यो यस्य प्रतिभूस्तिष्ठेदर्शनायेह मानवः ।
अदर्शयन्स तं तस्य प्रयच्छेत्स्वधनादृणम् ॥ १५८ ॥
यो यस्येति ॥ यो मनुष्यो यस्य दर्शनाय प्रतिभूस्तिष्ठेत् धनदानकाले ममायम-
धमर्णो दर्शनीय इति स तं तस्मिन्काल उत्तमर्णस्यादर्शयंस्तद्धनं दातुं यतेत ॥१५॥
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ १५९ ॥
प्रातिभाव्यमिति॥प्रतिभूत्वेन यहेयं धनं तत्प्रातिभाव्यं, वृथादानं परिहासनिमित्तं
पण्डादिभ्यो देयत्वेन पित्राङ्गीकृतं, चूतनिमित्तं सुरानिमित्तं च, दण्डं यद्देयं दण्डं,
शुल्कं घट्टादिदेयं तदवशेषं च पितृसंबन्धिनं पितरि मृते पुत्रो दातुं नार्हति ॥ १५९॥
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः।
दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ १६० ॥
दर्शनेति ॥ सुरानिमित्तं च यद्देयं दण्डं प्रातिभाव्यं न पुत्रो दातुमर्हतीति
योऽयं पूर्णोपदेशः स दर्शनप्रतिभुवः पितुर्देयो ज्ञेयः । दानप्रतिभुवि तु पितरि मृते
पुत्रं ऋणं दापयेत् ॥ १६० ॥
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
पश्चात्प्रतिभुवि प्रेते परीप्सेकेन हेतुना ॥ १६१ ॥
अदातरीति ॥ अदातरि दानप्रतिभुवोऽन्यस्मिन्दर्शनप्रतिभुवि प्रत्ययप्रतिभुवि
वा विज्ञातप्रातिभाव्यकारणमूलशोधनोचितवनग्रहणं यस्य तस्मिन्मृते दातोत्तमर्णः
पश्चात्केन हेतुना धनं प्रातुमिच्छेत् ॥ १६ ॥
प्रतिभुवो मृतत्वात्तत्पुत्रस्य चादानप्रतिभूत्वेनादातृत्वादित्याशंक्याह-
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः ।
खधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः॥ १६२ ।।
निरादिष्टेति ॥ असौ दर्शनप्रतिभूः प्रत्ययप्रतिभूर्वा यदि निरादिष्टधनोऽधमणेन
निसृष्टधनो यावता धनेनासौ प्रतिभूस्तच्छोधनपर्याप्तधनस्तदात्मधनादेव तद्धनं
निरादिष्टोऽत्र निरादिष्टधनपुत्रो लक्षणयोच्यते । ऋणमुत्तमाय दद्यादिति शास्त्र-
संप्रदायः ॥ १६२॥
मत्तोन्मत्ताताध्यधीन लेन स्थविरेण वा ।
असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ १६३ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
