पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


' " २९४ मनुस्मृतिः। [अध्यायः८ नेनि ॥ भूमिगोबनादी भोगाथै बन्धके इत्ते धनप्रयोगभवामनन्तरोक्तां वृद्धि- सुनमर्णो न लभते । कालसंरोधाच्चिरकालावस्थानाद्द्विगुणीभूतमूलधनप्रवेशेऽपि न निनोऽन्यस्मै दानं, न बान्यतो विक्रयः। मेधातिथिगोविन्दराजौ तु आधेश्चिरका- लावण्यानेऽपि न निमगों नान्यत्र बन्धकेनार्पणमिति व्याचक्षाते । अत्र तु सर्वदे- गीयष्टिाचारविरोधः बन्धकीकृतभूम्यादेरन्यत्राधीकरणसमाचारात् ॥ १४३ ॥ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन नोपयेचैनमाधिस्तेनोऽन्यथा भवेत् ॥ १४४ ॥ न भोक्तव्य इति ॥ गोप्याधिविषयं वचनमिदं । वस्त्रालंकारादिर्गोप्याधिबलान्न भोक्तव्यः भुझानो वृद्धिसम्मृजेत्यालल्येनात्रैनं तोषयेत् । यद्वा भोगेनासारतामाधी नीते सातवत्याधिमूल्यदानेन स्वामिनं तोषयेदन्यथा वन्धकचौरः स्यात् ॥ १४४ ॥ आधिचोपनिधिश्चोभौ न कालात्ययमहतः। अबहाया भवेतां तो दीर्घकालमवस्थितौ ॥ १४५ ॥ आधिश्चेनि ॥ आधिर्बन्धकः, उपनिधीयत इत्युपनिधिः प्रीत्या भोगार्थमर्पित दव्यम् । नारदस्मृनिलक्षितौ च निक्षेपोपनिधी तावात्रोपनिधिशब्देन गृह्यते । एनावाध्युपनिधी चिरकालावस्थितावपि न कालात्ययमहंतः । यदैव स्वामिना प्रार्थितो तदैव तत्यावहायौं समर्पणीयावित्यर्थः ॥ १४५ ॥ संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । धेनुरुष्ट्रो वहन्नधो यश्च दम्यः प्रयुज्यते ॥ १४६ ॥ संप्रीत्येति ॥ यत्किंचिग वाणि' इत्यनन्तरं भोगेन तत्वहानि वक्ष्यति तदप- बादार्थमिदम् । दृश्यनाना गौरुष्ट्रोऽश्वश्च वहन्दमनार्थं च प्रयुक्तो बलीवर्दादिः एते प्रीलान्येननु भुज्यमानाः कदाविदपि स्वामिनो न नश्यन्ति । प्रदर्शनार्थमिदं प्रीत्योपभुज्यमानं न नश्यतीनि विवक्षितम् । सामान्योपक्रमं चेदं विशेषाभि- धानमिति नपुंसकलिङ्गता ॥ १४६ ॥ यत्किचिदश वर्षाणि सन्निधौ प्रेक्षते धनी । सुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ १४७ ॥ यत्किंचिदिति ॥ यत्किंचिद्धनजातं समक्षमेव प्रीत्यादिव्यतिरेकेण परैर्दश वर्षाणि भुज्यमानं स्वामी प्रेक्षते मा भुइक्ष्वेत्यादिप्रतिपेधोक्तिं न.रचयनि नासो तल्लब्धुं योग्यो भवति । तस्य तत्र स्वाम्यं निवर्तत इति भावः ॥ १४७ ॥ अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भनं तव्यवहारेण भोक्ता तद्रव्यमर्हति ॥ १४८ ॥ अजड इति ॥ जडो बुद्धिविकल. । न्यूनपोडशवर्षः पोगण्डः । तथाच नारदः- .. '-