पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अध्यायः ८]] मन्वर्थमुक्तावलीसंवलिना। २९३ धरणालीनि ॥ दश रूप्यधरणानि रौप्यशतमानो ज्ञानज्यः । चनुभिः सुवर्गेनि- एकः प्रमाणेन बोद्धव्यः ॥ १३७ ॥ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहसं त्वेव चोत्तमः॥१३८ ॥ पणानामिति ॥ पञ्चाशदधिके द्वे पणशते प्रथमसाहसो मन्त्रादिभिः स्मृतः । पणपञ्चशतालि मध्यमसाहसो ज्ञेयः । पणसहस्रं तृत्तमसाहमो ज्ञेयः ॥ १३८ ॥ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्विगुणं तन्मनोरनुशासनम् ॥ १३९ ॥ ऋण इति ॥ मयोत्तमर्णस्य धनं देयमिति सभायामधमणेनोक्त सत्यधमणः पणशतात्पञ्च पणा इत्येवं दण्डमर्हति । यदा तु सभायामपि न किंचिदस्मै धारया- मीत्येवमपलपति तदा पणशतादृशपणा इत्येवं दण्डमर्हनि । इत्येवं मनुस्मृती दण्डप्रकारः ॥ १३९ ॥ वसिष्ठविहितां वृद्धि सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वार्धषिकः शते ॥ १४० ॥ वसिष्टेति ॥ वसिष्टेनोक्तां वृद्धिं धय॑त्वाद्धनवृद्धिकरी वृद्धिजीवी गृह्णीयात् । नामेव दर्शयति । शते प्रयुक्तेऽशीतिभागं प्रतिमासं वृद्धिं गृह्णीयात् ॥ १० ॥ द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्धकिल्विषी ॥ १४१॥ द्विकमिति ॥ साधूनामयं धर्म इति मन्यमानः पणशते प्रयुक्ते, पणद्वयं वा प्रनिमासं गृह्णीयात् । यस्मात् द्विकं शतं हि गृह्णानो वृद्धिवनग्रहणे किल्बिषी न भवति ॥ १४१ ॥ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ १४२ ॥ द्विकमिति ॥ ब्राह्मणादिवर्णानां क्रमेण द्विकं त्रिकं चतुष्कं पञ्चकं शतसममितो नाधिकं मासस्य संबन्धिनी वृद्धिं गृह्णीयात् । नन्वशीतिभागो लघु, द्विकशतग्रहणं गुरुः, कथमिमी ब्राह्मणस्य लघुगुरुकल्पौ विकल्पेताम् । अत्र मेधातिथिगोविन्दराजी नु पूर्ववृद्ध्या निर्वाहासंभवे द्विकशतपरिग्रह इति व्याचक्षाते। इदंतु वदामः-सब- न्धकप्वशीतिभागग्रहणं वन्धकरहिते तु द्विकशतवृद्धिपरिग्रहः। तदाह याज्ञवल्क्यः- 'अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुः- पञ्चकमन्यथा ॥ वेदान्तोद्गीतमहसो .मुनेाख्यानमाद्रिये । तद्विरुद्धं स्वबुद्ध्या च निबद्धमधुनातनैः' ॥ १४२ ॥ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधानिसर्गोऽस्ति न विक्रयः ॥ १४३॥