पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२९२ मनुस्मृतिः । [अध्यायः ८ यतो वक्ष्यति 'वधेनापि यदा त्वेतान्' इति । व्यस्तेनाङ्गच्छेदेनापि दण्ड्या न्वशे कर्तुं न शक्नुयात्तदा एतेषु सर्व वाग्दण्डादिचतुष्टयं कुर्यात् ॥ १३० ॥ लोकसंव्यवहारार्थ याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ १३१ ॥ लोकेति ॥ ताम्ररूप्यसुवर्णानां याः पणादिसंज्ञाः क्रयविक्रयादिलोकव्यवहारार्थ गृथिव्यां प्रसिद्धास्ता दण्डाधुपयोगार्थ साकल्येन कथयिष्यामि ॥ १३१ ॥ जालान्तरगते भानौ यत्सूक्ष्म दृश्यते रजः। प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ १३२ ॥ जालान्तरेति ॥ गवाक्षविवरप्रविष्टसूर्यरश्मिषु यत्सूक्ष्मं रजो दृश्यते तदृश्यमान- परिमाणानां प्रथमं सरेणुं वदन्ति ॥ १३२ ॥ त्रसरेणवोऽष्टौ विज्ञेया लिक्षका परिमाणतः। ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः॥ १३३ ॥ त्रसरेणव इति ॥ अष्टौ त्रसरेणवो लिक्षैका परिमाणेन ज्ञेया। तास्तिस्रो लिक्षा राजमर्षपो ज्ञेयः । ते राजसर्षपास्त्रयो गौरसर्षपो ज्ञेयः ॥ १३३ ॥ सर्पपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ १३४ ॥ सर्षपा इति ॥ गौरसर्पपाः षट् मध्यो न स्थूलो नापि सूक्ष्मो यवो भवति । विभिर्यवैः कृष्णलं रक्तिकेति प्रसिद्धम् । पञ्चभिः कृष्णलैमाषः । पोडश माषा: सुवर्णः स्यात् । पुंलिङ्गश्चायं परिमाणवचनः ॥ १३४ ॥ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ १३५ ॥ पलमिति ॥ चत्वारः सुवर्णाः पलं स्यात् । दश पलानि धरणम् । कृष्णलद्वयं समं कृत्वा तुलया कृतं रूप्यमाषको बोद्धव्यः ॥ १३५ ॥ ते घोडश स्साद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३६ ॥ ते षोडशेति ॥ ते पोडश रूप्यमापका रौप्यधरणं पुराणश्च राजतो रजतसंबन्धी स्यात् । कार्षिकस्तानमयः कार्षापणः पण इति विज्ञेयः। कार्षिकश्च शास्त्रीयपलच- तुर्थभागो बोद्धव्यः । अतएव 'पलं कर्षचतुष्टयम्' इत्याभिधानिकाः ॥ १३६ ॥ धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निप्को विज्ञेयस्तु प्रमाणतः ॥ १३७ ॥