पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २९१ दशेति ॥ हैरण्यगर्भो मनुर्दश दण्डस्थानान्युक्तवान् । यानि क्षत्रियादिवर्णत्रय- वेषये भवन्ति । ब्राह्मणः पुनर्महत्यपराधेऽक्षतशरीरो देशान्निःसार्यते ॥ १२४ ।। उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ १२५ ॥ उपस्थमिति ॥ लिङ्गादीन्येतानि दश दण्डस्थानानि, अतस्तत्तदङ्गेनापराधे सति अपराधलाघवगौरवापेक्षया तदङ्गताउनवेदनादि कर्तव्यम् । अल्पापराधे यथाश्रुतं वनदण्डः । देहदण्डो मारणं महापातकादौ ॥ १२५ ॥ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ १२६ ।। अनुबन्धमिति ॥ पुनःपुनरिच्छातोऽपराधकरणमपेक्ष्य प्रामारण्यादिचापराधि- स्थानं रात्र्यादिकं वापराधत्यापेक्ष्य सारं चापराधकारिणो धनशरीरादिसामर्थ्यमप- राधं च गुरुलघुभावेन चालोक्य दण्डनीयेषु दण्डं कुर्यात् । एतच्चाभिहिताभिधा- स्यमानदण्डशेषभूतम् ॥ १२६ ॥ अधर्मदण्डनं लोके यशोनं कीर्तिनाशनम् । अस्वयं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ १२७ ॥ अधर्मेति ॥ जीवतः ख्यातिर्यशः, मृतस्य ख्यातिः कीर्तिः, यस्मादनुबन्धाद्यनपे- क्ष्य दण्डनमिह लोके यशोनाशनं मृतस्य च कीर्तिनाशनं परलोके च धर्मान्तरा- र्जितस्वर्गप्रतिबन्धकं तस्मात्तत्परित्यजेत् ॥ २७ ॥ अदण्ड्यान्दण्डयनराजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाग्नोति नरकं चैव गच्छति ॥ १२८ ।। अदण्ड्यानिति ॥ राजा दण्डानहन्धिनलोभादिना दण्डयन्, दण्डाहीश्वानुरो- धादिनोत्सृजन्महतीमख्याति प्राप्नोति नरकं च व्रजति ॥ १२८ ॥ वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ १२९ ॥ वाग्दण्डमिति ॥ न साधु कृतवानसि मैवं भूयः कार्षीरित्येवं वाङ्गिर्मलनं प्रथ- मापराधे गुणवतः कुर्यात् । तथापि यदि नोपशाम्यति तदा धिग् जाल्म माजीवहा- निस्ते पापस्य भूयादित्येवमादि तस्य कार्यम् । तदापि यद्यसन्मार्गान निवर्तते तदा धनदण्डमस्य तृतीयं कुर्यात् । एवमपि चेन्नावतिष्ठते तदातः परं वधदण्ड ताडनाद्यङ्गच्छेदरूपं तस्य कुर्यान मारणम् ॥ १२९ ॥ वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ १३० ॥