पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२९० मनुस्मृतिः। [ अध्यायः ८ लोभादिनि ॥ लोभन, विपरीतज्ञानेन, भयेन, नेहेन, कामेन, क्रोधेन, अज्ञा- नेन, अनवधानेन साक्ष्यमसत्यमुच्यते ॥ ११८ ॥ एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः॥ ११९ ॥ एषामिति ॥ एषां लोभादीनां मध्यादन्यतमस्मिन्निमित्ते सति यो मिथ्या साक्ष्यं कथयेत्तस्य दण्डविशेषाणि क्रमशो वदिष्यामि ॥ ११९ ॥ लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् । भयावौ मध्यमौ दण्डौ मैत्रात्पूर्व चतुर्गुणम् ।। १२० ॥ लोभादिति ॥ लोभेन मिथ्याभिधाने सति वक्ष्यमाणपणानां सहस्रं दण्ड्यः, मोहेन प्रथमं साहसं वक्ष्यमाणम्, भयेन च वक्ष्यमाणौ मध्यमसाहसौ, मैत्रात्प्रथ- मसाहसं चतुर्गुणम् ॥ १२० ॥ कामाद्दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । अज्ञानावे शते पूर्णे बालिश्याच्छतमेव तु ॥ १२१ ॥ कामादिति ॥ स्त्रीसंभोगरूपकामानुरोधेन मिथ्या वदन्प्रथमसाहसं दशगुणं दण्ड्यः । क्रोधेन नु परं मध्यमसाहसं त्रिगुणं वक्ष्यमाणं, अज्ञानत्वाऐ गते, बालिश्यादनवधानात्पणशतमेव दण्ड्य इति सर्वत्रानुषङ्गः ॥ १२ ॥ एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः। धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ १२२ ॥ एतानिति ॥ सत्यरूपधर्मस्यापरिलोपार्थमसत्यरूपाधर्मस्य च वारणार्थमे- तान्कौटसाक्ष्यविषये पूर्वैर्मुनिभिरुक्तान्दण्डान्मन्वादय आहुः। एतच्च सकृत्कौ- टसाक्ष्ये ॥ १२२ ॥ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ १२३ ॥ भूयोभूयः कौटसाक्ष्यकरणेषु तु कौटसाध्यमिति ॥ क्षत्रियादींस्त्रीन्वर्णान्को- टसाक्ष्यात्पूर्वोक्तेन दण्डयित्वा धार्मिको राजा स्वराष्ट्राद्विवासयेत् । ब्राह्मणं तु धनदण्डव्यतिरेकेण स्वराष्ट्रान्निःसारयेत् । 'न जातु ब्राह्मणं हन्यात्सर्वपापेप्वव- स्थितम् । राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥' इति धनसहितनिर्वासनस्था- भिधास्यमानत्वात् । गोविन्दराजस्तु ब्राह्मणं पुनः पूर्वदण्डेन दण्डयित्वा नग्नं कुर्यादिति व्याचष्टे । मेधातिथिस्तु ब्राह्मणस्य विवासस्त्वं वासोऽपहरणं गृहभङ्गो वेत्याचष्टे ॥ १२३ ॥ दश स्थानानि दण्डस मनुः खायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ १२४ ॥