पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २८९ कामिनीष्विति ॥ बहुभार्थस्य नान्यामहं कामये त्वमेव मत्प्रेयसीत्येवंविशिष्टः सुरतलाभाथै कामिनीविषये, विवाहविषये च मयान्या न वोढव्येल्यादा, गवार्थ बासाद्युपहारे च, अग्लो होमार्थमिन्धनाडुपहारे, ब्राह्मणरक्षार्थमङ्गीकृतधनाद वृथा शपथे पापं न भवति ॥ ११२ ॥ सत्येन शापयेद्विपं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ११३ ॥ सत्येनेति ॥ ब्राह्मणं सत्यशब्दोच्चारणेन शापयेत् । क्षत्रियं वाहनायुधं मम नि- रफलं स्यादित्येवम् । वैश्यं गोबीजकाञ्चनानि च मम निष्फलानि स्युरिन्येवम् ! शूद्रं च सर्वाणि मे पातकानि स्युरित्येवं शापयेत् ॥ ११३॥ अग्निं वाहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ११४ ॥ कार्यगौरवलाधवापेक्षया अग्निमिति ॥ अग्निसन्निभं पञ्चाशत्पलिकमष्टाङ्गुलमयः- पिण्डं हस्तद्वयविन्यस्तसप्ताश्वत्थपत्रं शूद्रादिकं सप्त पदानि पितामहाद्युक्तविधाना- दाहारयेत् । जलौकादिरहितजले चै निमजयेत् । अशेपेतिकर्तव्यता स्मृत्यन्तरे ज्ञेया । पुत्राणां दाराणां च पृथक् शिरस्येनं स्पर्शयेत् ॥ ११४ ॥ यमिद्धो न दहत्यग्निरापो नोन्मजयन्ति च । न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ११५ ॥ यमिति ॥ यं प्रदीप्तोऽग्निर्न दहति, आपश्च यं नोज़ नयन्ति, न चातिमेव महती प्राप्नोति स शपथे विशुद्धो ज्ञेयः ॥ ११५ ॥ अत्र प्रकृतमर्थवादमाह--- वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ ११६ ॥ वन्सस्येति ॥ यस्मात्पूर्वकाले वत्सनाम्न ऋगेर्न त्वं ब्राह्मणः शूद्रापत्योऽसीये कनीयसा वैमात्रेयेणाभिष्टय नैतदेवमिति स यथार्थमग्निं प्रविष्टस्याग्निः सर्वस्य जगतः शुभाशुभकर्तव्ये चारभूतः सत्येन हेतुना रोमैकमपि वह्निर्न दग्धवान्॥१५॥ यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ११७ ॥ यमिनिति ॥ यस्मिन्यस्मिन्व्यवहारे साक्षिभिरनृतमुक्तमिति निश्चितं भवेत्त- कार्यमसमा प्राड्विाकः पुनरपि निवर्तयेत् । यदपि च दण्डममाप्तिपर्यन्ततां नीतं तदपि पुनः परीक्षेत ॥ ११७ ॥ वक्ष्यमाणविशेपाथै लोभादीन्पृथनिर्दिशति- लोभान्मोहाद्यान्मैत्रात्कामात्क्रोधात्तथैव च । अज्ञानाद्वालभावाच साक्ष्यं वितथमुच्यते ॥ ११८ ॥ मनु० २५