पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


2 , अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २८१ रिति विधानात् । अर्थप्रतिपेधसिद्धौ कस्यांचिदवस्थायां द्वयोरभ्यनुज्ञानार्थ निषे- धवचनम् । अन्त्यश्चाण्डालादिः, धर्मानभिज्ञातत्वात् । विकलेन्द्रिय उपलब्धिवैक- ल्यान्न साक्षी कार्यः ॥ ६६ ॥ ना” न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः। न श्रमातॊ न कामातों न क्रुद्धो नापि तस्करः॥ ६७ ।। नात इति ॥ आतॊ बन्धुविनाशादिना, मत्तो मद्यादिना, उन्मत्त उत्क्षेपभूता- वेशादिना, क्षुधापिपासादिना पीडितः, श्रमातों वर्मगमनादिना खिन्नः, कामातः, उत्पन्नक्रोधः चौरश्च न साक्षी कार्य इति सर्वत्र संबध्यते । तत्रादिबुद्धिवैकल्यात् । चौरस्त्वधार्मिकत्वात् ॥ ६७ ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युद्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः॥ ६८ ॥ स्त्रीणामित्यादि ॥ स्त्रीणामन्योन्यव्यवहारे ऋणादानादौ स्त्रियः साक्षिण्यो भवन्ति । द्विजानां ब्राह्मणक्षत्रियविशां सदृशाः सजातीयाः साक्षिणः स्युः । एवं शूद्राः साधवः शूद्राणां, चाण्डालादीनां चाण्डालादयः साक्षिणो भवेयुः । एतच्च सजातीयसाक्ष्यभिधानम् । उक्तलक्षणसजातीयसाक्ष्यसंभवे विजातीया अपि सा- क्षिणो भवन्ति । अतएव याज्ञवल्क्यः-'यथाजाति यथावणे सर्वे सर्वेषु वा स्मृताः ॥ ६८॥ अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ ६९ ॥ अनुभावीति ॥ गृहाभ्यन्तरेऽरण्यादौ वा चौरादिकृतोपदचे देहोपघाते वातता- य्यादिकृते यः कश्चिदुपलभ्यते स वादिनोरेव साक्षी भवति, नतु ऋणादानादि- वदुक्तलक्षणोपेतः ॥ ६९ ॥ तदेवोदाहरणात्स्पष्टयति- स्त्रियाप्यसंभवे कार्य बालेन स्थविरेण वा । शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ७० ॥ स्त्रियापीति ॥ अन्तर्वेश्मादावुक्तसाक्ष्यभाचे सति स्त्रीबालवृद्ध शिष्यबन्धुदासक- मकरा अपि साक्षिणः स्युः ॥ ७० ॥ नन्वस्थिरबुद्धित्वादिना स्त्रीबालादीनां कथमत्रापि साक्षित्वमित्यत्राह- बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुत्सित्तमनसां तथा ॥ ७१॥ बालबृद्धेति ॥ वालवृद्धव्याधितानामुपप्लुतमनसां च साक्ष्येऽनृतं वदतामस्थिरा वाग्भवति । अतस्तामनुमानेन जानीयात् । यथोक्तम् 'वाग्भिर्विभावयेल्लिङ्गैः' इति ॥ ७१ ॥