पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० मनुस्मृतिः । [ अध्यायः८ साक्षिणः कर्तव्यास्तथाविधान्वदिष्यामि । यथा च तैरपि सत्यं वक्तव्यं तमपि प्रकार वक्ष्यामि ॥ ६ ॥ गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः । अर्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि ॥ ६२ ॥ गृहिण इति ॥ कृतदारपरिग्रहाः पुत्रवन्तस्तद्देशजाः क्षत्रियशूद्भवैश्यजातीया अर्थिनिर्दिष्टाः सन्तः साक्षित्वयोग्या भवन्ति । ते हि कृतपरिकरपुत्रभयात्तद्देशवा- सिना विरोधाच नान्यथा वदन्ति नतु ये केचिदृणादानादिव्यवहारेषु साक्षिणः स्युः। आपदि तु वाग्दण्डपारुष्यस्वीसंग्रहणादिषूक्तव्यतिरिक्ताः साक्षिणो भवन्ति ॥ ६२ ॥ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः। सर्वधर्मविदो लुब्धा विपरीतांस्तु वर्जयेत् ॥ ६३ ॥ आप्ता इत्यादि ॥ 'क्षत्रविदशूदयोनयः' इत्युक्तत्वात्ततो ब्राह्मणपरिग्रहार्थं सर्वेषु वर्णेष्वित्यभिधानम् । सर्ववर्णेषु मध्ये ये यथार्थावगतवादिनः सर्वधर्मज्ञा लोभरहि- तास्ते साक्षिणः कर्तव्याः । उक्तविपरीतांश्च वर्जयेत् ॥ ६३ ॥ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ६४ ॥ नार्थसंबन्धिन इत्यादि ॥ ऋणाद्यर्थसंबन्धिनोऽधमर्णाद्याः, आप्ता मित्राणि सहायास्तत्परिचारकाः, शत्रवः, स्थानान्तरावगतकौटसाक्ष्याः, रोगपीडिता महापा- तकादिदूषिताः साक्षिणो न कर्तव्याः। लोभरागद्वेषस्मृतिभ्रंशादीनामन्यथाभिधान- हेतूनां संभवात् ॥ ६४ ॥ न साक्षी नृपतिः कार्यों न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः॥६५॥ न साक्षीति ॥ प्रभुत्वात्साक्षिधर्मेण प्रष्टुमयोग्यत्वान्न राजा साक्षी कार्यः। कारुः सूपकारादिः, कुशीलवो नटादिः, तयोः स्वकर्मव्यग्रत्वात्प्रायेण धनलोभवत्त्वाचा- साक्षित्वम् । श्रोत्रियोऽप्यध्ययनाग्निहोत्रादिकर्मव्यग्रतया न साक्षी। लिङ्गस्थो ब्रह्म- चारी, सङ्गविनिर्गतः परिव्राजकस्तयोरपि स्वकर्मव्यग्रत्वाद्ब्रह्मनिष्टत्वाच्चासाक्षित्वम् । श्रोत्रियग्रहणादध्ययनाग्निहोत्रादिव्यग्रेतरब्राह्मणस्यानिषेधः ॥ ६५ ॥ नाध्यधीनो न वक्तव्यो न दस्युन विकर्मकृत् । न वृद्धो न शिशु को नान्त्यो न विकलेन्द्रियः॥६६॥ नाध्यधीन इति ॥ आध्यधीनोऽत्यन्तपरतन्त्रो गर्भदासो न, वक्तव्यो विहितकर्म- त्यागाल्लोकविगर्हितः, दस्युः क्रूरकर्मा 'न चौरो नापि तस्करः' इति वक्ष्यमाणत्वात्। विकर्मकृन्निषिद्धकर्मकारी, एतेषां रागद्वेषादिसंभवात् न वृद्धः, प्रायेण स्मृतिभ्रं- शसंभवात् । न बालोऽप्राप्तव्यवहारत्वात् । नैको विनाशप्रवासशङ्कया तस्य त्र्यचैर- .