पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। संभाषणानह निर्जनादिदेशे साक्षिभिः सहान्योन्यं संभाषते । यश्च भाषार्थस्थिरी- करणाय नितरामुच्यमानं प्राडिवाकेन प्रश्नं नेच्छेत् । यश्च निष्पतेत् उक्ताश्च व्यवहारान्पुराऽनाख्याय यथा स्थानात्स्थानान्तरं गच्छेत् । यश्च बहीत्युक्तो न किंचिद्रवीति । उक्तं साध्यं न प्रमाणेन प्रतिपादयति । पूर्व साधनं, अपरं साध्यं, तद्यो न जानाति । असाधनमेव साधनत्वेन निर्दिशति । असाध्यमेव मानेन 'शश- शृङ्गकृतं धनुज्ञेयम्' इत्यादि साध्यत्वेन निर्दिशति स तस्मात्साध्यादर्थाद्धीयते साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः। धर्मस्थः कारणैरेतैहीनं तमपि निर्दिशेत् ॥ ५७ ।। साक्षिण इति ॥ साक्षिणो मम विद्यन्त इत्युक्त्वा तानिर्दिशेत्युक्तो यो न निर्दि- शति तं पूर्वोक्तैरेभिः कारणैर्धर्मस्थः प्राडिवाकः पराजितं कथयेत् । 'ज्ञातारः सन्ति मेत्युक्त्वा' इति वा पाठः । अत्र छान्दसमिकारस्य पूर्वरूपत्वम् ॥ ५७ ॥ अभियोक्ता न चेडूयाद्वथ्यो दण्ड्यश्च धर्मतः । न चेत्रिपक्षात्प्रयाद्धर्म प्रति पराजितः ॥ ५८ ॥ अभियोक्तेति ॥ योऽर्थी सन् राजस्थाने निवेद्य भाषायां न ब्रूयात्तदा विष- यगौरवापेक्षया बध्यो लघुनि विषये दण्ड्यश्च धर्मतः स्यात् । प्रत्यर्थी पुनर्यदि पक्षत्रयमध्ये न ब्रूयात्तदा धर्मत एव पराजितः स्यान्न तु छलेन ॥ ५८ ॥ यो यावन्निडुवीतार्थ मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ ५९ ॥ य इति ॥ यः प्रत्यर्थी यत्परिमाणधनमपनयति, अर्थी वा यत्परिमाणधने मिथ्या वदति तावधार्मिकावपळुतमिथ्योक्तधनाद्विगुणं दण्डरूपं दापनीयौ । अध- मज्ञाविति वचनाज्ज्ञानपूर्वापहवमिथ्योक्तिविषयमिदम् । प्रमादादिनापलापमिथ्या- नियोगापह्नवे द्विगुणमिति शतदशमभागं वक्ष्यति ॥ ५९ ॥ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ ६॥ पृष्ट इति ॥ धनार्थिनोत्तमर्णेन राजपुरुषापकर्ष कृताह्वानः प्राड्विाकेन पृष्टः सन्यदा न धारयामीत्यपह्नवानो भवति तदा नृपत्यधिकृतब्राह्मणसमक्षं व्यवरैः साक्षिभिस्त्रयोऽवरा न्यूना येषां तैरर्थिना भावनीयः ॥ ६० ॥ यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान्संप्रवक्ष्यामि यथावाच्यमृतं च तैः॥६१ ॥ यादृशा इति ॥ धनिभिरुत्तमर्णादिभिः ऋणादानादिव्यवहारेषु यथाविधाः