,
7
-
अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता।
२७७
अशआदित्वान्मत्वर्थीयोऽच् । अर्थवन्तं गोहिरण्यादिधनविषयस्थं व्यवहारं पश्येत्
न त्वहमनेनाक्षिनिकोचनेनोपहसित इत्यादिस्वल्पापराधम्, आत्मानं च तत्त्वनिर्णये
स्वर्गादिफलभागिनं, साक्षिणः सत्यवादिनः, देशं कालं च देशकालोचितं
स्वरूपं, व्यवहारस्वरूपं गुरुलघुतादिकं पश्येत् ॥ ४५ ॥
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः ।
तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ४६॥
सद्भिरित्यादि ॥ विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यदृश्यमानशास्त्रमनुष्ठितं तद्देशकु-
लजात्यविरुद्धमादाय व्यवहारनिर्णयं प्रकल्पयेत् ॥ ४६ ॥
एतत्सकलव्यवहारसाधारणं परिभाषात्मकमुक्तम् । संप्रति ऋणादानमधि-
कृत्याह-
अधमार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ४७ ॥
अधमर्णार्थेति ॥ अधमर्थसियर्थं प्रयुक्तधनसियर्थ धनस्वामिना राजा
बोधितो वक्ष्यमाणलेख्यादिप्रमाणप्रतिपादितं धनमुत्तमर्णस्याधमग प्रदापयेत् ।
अधमर्णादुत्तमाय दापयेदित्यर्थः ॥ ४७ ॥
कथं दापयेदित्याह-
यैर्यैरुपायैरर्थ खं प्राप्नुयादुत्तमर्णिकः ।
तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम् ॥ ४८ ॥
येयरिति ॥ यैर्वक्ष्यमाणैरुपायैः संप्रयुक्तमर्थमुत्तमों लभते तैस्तैरुपायैर्वशी-
कृत्य तमर्थ दापयेत् ॥ ४८ ॥
तानुपायानाह-
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥ ४९ ॥
धर्मेणेत्यादि ॥ धर्मादिना प्रयुक्तमर्थ साधयेत् । तत्र धर्मानाह बृहस्पतिः-
'सुहृ-संबन्धिसंदिष्टः साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म एष
उदाहृतः॥' देये धनेऽधमर्णस्याविप्रतिपत्तौ व्यवहारेण । तथा च वक्ष्यति-'अर्थे-
ऽपव्ययमानं तु' इति । मेधातिथिस्तु निःस्वो यः स व्यवहारेण दापयितव्यः। अन्य-
कर्मोंपकरणं धनं दत्त्वा कृषिवाणिज्यादिना व्यवहारयितव्यः । तदुत्पन्नं धनं
तस्मात्तु गृह्णीयादित्याह । छलादीनि त्रीण्याह बृहस्पतिः-'छद्मना याचितं चार्थ-
मानीय ऋणिकावली । अन्याहृतादि वाहृत्य दाप्यते तत्र सोपधिः ॥ दारपुत्रपशू-
न्हत्वा कृत्वा द्वारोपवेशनम् । यत्रार्थी दाप्यतेऽथ स्वं तदाचरितमुच्यते ॥ वध्वा
स्वगृहमानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः' ।
मनु० २४
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३११
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
