पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ मनुस्मृतिः। [अध्यायः ८ पादो धर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥ १८ ॥ पाद इत्यादि ॥ दुर्व्यवहारदर्शनादधर्मसंबन्धी चतुर्थभागोऽर्थिनमधर्मकर्तारं प्रत्यार्थिनं वा गच्छति । परश्चतुर्थभागः साक्षिणमसत्यवादिनम् । अन्यपादः सभा- सदः सर्वानधर्मप्रवृत्त्यनिवारकान्व्याप्नोति । पादश्च राजानं ब्रजति । सर्वेषां पाप- संबन्धो भवतीत्यत्र विवक्षितम् ॥ १८ ॥ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ १९ ॥ राजेत्यादि ॥ यस्यां पुनः सभायामसत्यवादी निन्दा)ऽर्थी प्रत्यर्थो वा सम्यक न्यायदर्शनेन निन्द्यते तत्र राजा निष्पापो भवति । सभासदश्च पापेन न संबध्यन्ते । अर्थ्यादिकमेव कर्तारमुपैति ॥ १९ ॥ जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेन तु शूद्रः कथंचन ॥ २० ॥ जातिमात्रेति ॥ ब्राह्मणजातिमात्रं यस्य विद्यते नतु ब्राह्मणकर्मानुष्ठानं वणिगा- दिवत्साक्ष्यादिद्वारेण स्फुटन्यायान्यायनिरूपणक्षमो ब्राह्माणजातिरपि वा यस्य संदिग्धार्थानां ब्राह्मणं ब्रवीति स वरम् । उक्तयोग्यब्राह्मणाभावे च क्वचित्कार्यद- र्शने नृपतेर्भवेन्न तु धार्मिकोऽपि व्यवहारज्ञोऽपि शूद्रः । ब्राह्मणो धर्मप्रवक्तेति विधानादेव शूद्रनिवृत्तिः सिद्धा पुनर्न तु शूद्र इति शूद्रनिषेधो योग्यब्राह्मणाभावे क्षत्रियवैश्ययोरभ्यनुज्ञानार्थः । अतएव कात्यायन.-'यत्र विप्रो न विद्वान्स्यात्क्ष- त्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञ शूद्रं यत्नेन वर्जयेत् ॥ २० ॥ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्र पङ्के गौरिख पश्यतः ॥२१॥ यस्मात् यस्येत्यादि ॥ यस्य राज्ञो धर्मविवेचनं शूद्रः करते तस्य पश्यत एव पड़े गौरिव तद्राष्ट्रमवसन्नं भवति ॥ २१ ॥ यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ २२ ॥ यदित्यादि ॥ यद्राष्ट्र शूद्दबहुलं बहुलपरलोकाभाववाद्याक्रान्तं द्विजशून्यं तत्सर्व दुर्भिक्षरोगपीडितं सच्छीघ्र विनश्यति । 'अग्नौ प्रास्ताहुतिः सम्यक्' इत्यस्याभावेन वृष्टिविरहादुपजातदुर्भिक्षरोगाधुपसर्गशान्त्यर्थकाभावाच ॥ २२ ॥ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ २३ ॥