पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२६६ मनुस्मृतिः। [ अध्यायः ७ . हिरण्यभूमीति ॥ सुवर्णभूमिलाभेन तथा राजा न वृद्धिमेति यथेदानी कृशम- प्यागामिकाले वृद्धियुतं स्थिरं मित्रं लब्ध्वा वर्धते ॥ २०८ ॥ धर्मज्ञं च कृतज्ञ च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ २०९ ।। धर्मज्ञमिति ॥ धर्मज्ञ, कृतोपकारस्य स्मर्तृ, सानुरागमनुरक्तं, स्थिरकार्यारम्भ, प्रीतिमत्प्रकृतिकं, यत्तन्मित्रमतिशयेन शस्यते ॥ २०९ ॥ माझं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तं च कष्टमाहुरिं बुधाः ॥ २१ ॥ प्राज्ञमित्यादि । विद्वांसं, महाकुलं, विक्रान्तं, चतुरं, दातारं, उपकारस्सारं, सुखदुःखयोरेकरूपं शत्रु दुरुच्छेदं पण्डिता बदन्ति । तेनैवंविधशत्रुणा सह संघातव्यम् ॥ २० ॥ आर्यता पुरुषज्ञानं शौर्य करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणोदयः॥ २११॥ आर्यतेत्यादि । साधुत्वं, पुरुषविशेषज्ञता, विक्रान्तत्वं, कृपालुत्वं, सर्वदा च स्थौललक्ष्यं बहुप्रदत्वं । अतएव 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्याभि- धानिकाः । स्थौललक्ष्यमर्थेऽसूक्ष्मदर्शित्वमिति नु मेधातिथिगोविन्दराजयोः पदा- र्थकथनमनागमम्, एतदुदासीनगुणसामग्र्यं, तस्मादेवंविधमुदासीनमाश्रित्योक्त- लक्षणेनाप्यरिणा सह योद्धव्यम् ॥ २११ ॥ क्षेम्या सस्यप्रदां नित्यं पशुद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ २१२ ॥ क्षेम्यामिति ॥ अनामयादिकल्याणक्षमामपि, नदीमातृकतया सर्वदा सर्वसस्य- प्रदामपि, प्रचुरतृणादियोगात्पशुवृद्धिकरीमपि भूमिमात्मरक्षार्थमविलम्बमानो राजा निजरक्षाप्रकारान्तराभावात्परित्यजेत् ॥ २१२ ॥ यस्मात्सर्व विषयोऽयं धर्मः स्मर्यते- आपदर्थं धनं रक्षेद्दाराव्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ २१३ ॥ आपदर्थमित्यादि ॥ आपन्निवारणार्थ धनं रक्षणीयं । धनपरित्यागेनापि दारा- रक्षेत् । आत्मानं पुनः सर्वदा दारधनपरित्यागेनापि रक्षेत् । 'सर्वत एवत्मानं गोपायीत' इति श्रुत्या शास्त्रीयमरणव्यतिरेकेणात्मरक्षेत्युपदेशात् ॥ २१३ ॥ सह सर्वाः समुत्पन्नाः असमीक्ष्यापदो भृशम् । संयुक्तांश्च वियुक्तांश्च सर्वोपायान्सृजेद्बुधः ॥ २१४ ॥