पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२६२ मनुस्मृतिः । [ अध्यायः ७ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ १८६ ॥ शत्रुसेविनीति ॥ यन्मित्रं गूढं कृत्वा शत्रु सेवते, यश्च भृत्यादिः पूर्व विरागा- गतः पश्चादागतस्तयोः सावधानो भवेत् । यस्मात्तावतिशयेन दुनिग्रहो रिपुः ॥ दण्डव्यूहेन तन्मार्ग यायात्तु शकटेन वा । वराहमकराभ्यां वा मूच्या वा गरुडेन वा ॥१८७॥ दण्डेति ॥ दण्डाकृतिव्यूहरचनादि दण्डव्यूहः । एवं शकटादिव्यूहा अपि । तत्राग्रे बलाध्यक्षो मध्ये राजा पश्चात्सेनापतिः पार्श्वयोर्हस्तिनस्तत्समीपे घोटकास्ततः पदातय इत्येवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस्तेन तद्यातव्यं नाग सर्वतो भये सति यायात् सूच्याकारागः पश्चात्पृथुलः शकटव्यूहस्तेन पृष्टतो भये सति गच्छेत् । सूक्ष्ममुखपश्चाद्भागः पृथुमध्यो वराहव्यूहः । एष एवं पृथुतरमध्यो गरुडव्यूहस्ताभ्यां पार्श्वयोर्भये सति व्रजेत् । वराहविपर्ययेण मकरव्यू- हस्तेनाग्रे पश्चाच्चोभयत्र भये सति गच्छेत् । पिपीलिकापतिरिवारपश्चाद्भावेन सं- हतरूपतया यत्र यत्र सैनिकावस्थानं स शीघ्रप्रवीरपुरुषमुखः सूचीव्यूहस्तेनाग्रतो भये सति यायात् ॥ १८७ ॥ यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् । पझेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ १८८ ॥ यत इत्यादि ॥ यस्या दिशः शत्रुभयमाशङ्केत तत्यामेव बलं विस्तारयेत्समविस्तृ- तपरिमण्डलो मध्योपविष्टजिगीपुः पद्मव्यूहस्तेन पुरान्निर्गत्य सर्वदा कपटनिवेशनं कुर्यात् ॥ १८८॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्याची तां कल्पयेद्दिशम् ॥ १८९ ॥ सेनापतीति ॥ हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पतिः कार्यः स च पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः सेनापतिरुच्यते । तद्दशकस्यैकः सेनाना- यकः स एव च बलाध्यक्षः । सेनापतिबलाध्यक्षो समस्तासु दिक्षु संघर्पयुद्धार्थ नियोजयेत् । यस्याश्च दिशो यदा भयमाशङ्केत्तदा तामने दिशं कुर्यात् ॥ १८९ ॥ गुल्मांश्च स्थापयेदाप्तान्कृतसंज्ञान्समंततः। स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ १९० ॥ गुल्मानित्यादि । गुल्मान्सैन्यकदेशानालपुरुपाधिष्ठितान् स्थानापसरणयुद्धा) कृतभेरीपटहशङ्खाद्विसंकेतान् अवस्थानयुद्धयोः प्रवीणान्निर्भयानव्यभिचारिणः से- नापतिबलाध्यक्षान्दूरतः सर्वदिश्च पारक्यप्रवेशवारणाय शत्रुचेष्टापरिज्ञानाय च नियोजयेत् ॥ १९०॥