पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ७] भन्वर्थमुक्तावलीसंवलिता। २५७ तद्यथा । अग्रतोऽरिभूमीनां मित्रं, अरिमिन, मित्रमित्रं अरिमित्रमित्रं चेत्येवं चत- त्रः प्रकृतयो भवन्ति । पश्चाच्च पाणिग्राहः, आक्रन्दः, पाणिग्राहासारः, आक्रन्दा- सार इति चतस्रः एवमष्टौ प्रकृतयो भवन्ति । पूर्वोक्ताभिश्च मध्यमारिविजिगीषू- दासीनशत्रुरूपाभिः मूलप्रकृतिभिः सह द्वादशैताः प्रकृतयः स्मृताः ॥ १५६ ॥ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः। प्रत्येक कथिता ह्येताः संक्षेपेण द्विसप्ततिः॥ १५७ ॥ अमात्येति ॥ आसां मूलप्रकृतीनां चतसृणामष्टानां शाखाप्रकर्नानामुक्तानासे- कैकस्याः प्रकृतेरमात्यदेशदुर्गकोशदुर्गदण्डाख्याः पञ्च इव्यप्रकृतयो भवन्ति । एताश्च पञ्च द्वादशानां प्रत्येकं भवन्त्यो द्वादशगुणजाताः षष्टिरेव द्रव्यप्रकृतयो भवन्ति । तथा मूलप्रकृतिभिश्चतसृभिः शाखाप्रकृतिभिश्चाष्टाभिः सह संक्षेपतो द्विसप्ततिप्र- कृतयो मुनिभिः कथिताः ॥ १५७ ॥ अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ १५८॥ अनन्तरमिति ॥ विजिगीपोर्नृपत्यानन्तरितं चतुर्दिशमप्यार प्रकृति विजानी- यात्। तथा तत्सेविनमप्यरिमेव विद्यात् । अरेरनन्तरं विजिगीपोर्नृपस्यैकान्तरं मित्र- प्रकृति विद्यात् । तयोश्चारिमित्रयोः परं विजिगीपोरुदासीनप्रकृति विद्यात् । आसा- मेव प्रकृतीनामग्रपश्चाद्भावभेदेन व्यपदेशभेदः। अनाग्रवर्तिनोऽरिव्यपदेश एव । पश्चाद्वर्तिनस्त्वरित्वेऽपि पाणिग्राहव्यपदेशः ॥ १५८ ॥ तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ १५९ ॥ तानिति ॥ तान्सर्वानपतीन्सामदानभेददण्डैरुपायर्यथासंभवं व्यस्तैः समस्तै- वंशीकुर्यात् । अथवा पौरुषेण दण्डेनैव केवलेन नयेन साम्नव वा केवलेनात्मव- शान्कुर्यात् । तथा चोक्तम् 'सामदण्डौ प्रशंसन्ति नित्वं राष्ट्राभिवृद्धये ॥ १५९ ॥ संधिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ १६० ॥ संधिमिति ॥ तत्रोभयानुग्रहार्थ हस्त्यश्वरथहिरण्यादिनिबन्धनेनावाभ्यामन्यो- न्यस्योपकर्तव्यमिति नियमबन्धः संधिः, वैरं विग्रहाचरणाद्याधिक्येन, यानं शत्रु प्रति गमनम् , उपेक्षणं आसनं, स्वार्थसिद्धये बलस्य द्विधाकरणं द्वैधीभावः, शत्रुपी- डितस्य प्रबलतरराजान्तराश्रयणं संश्रयः, एतान्गुणानुपकारकान्सर्वदा चिन्तयेत् । यद्गुणाश्रयणे सत्यात्मन उपचयः परस्यापचयस्तं गुणमाश्रयेत् ॥ १६० ॥ आसनं चैव यानं च संधि विग्रहमेव च । कार्य वीक्ष्य प्रयुञ्जीत द्वैध संश्रयमेव च ॥ १६१ ॥