पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ मनुस्मृतिः । [अध्यायः ७ विक्रोशन्त्यो यस्य राष्ट्राड्रियन्ते दस्युभिः प्रजाः। संपश्यतः समृत्यस्य मृतः स नतु जीवति ॥ १४३॥ विक्रोशन्त्य इनि ॥ यस्य राज्ञोऽमात्यादिसहितस्य पश्यत एव राष्ट्रादाक्रोशन्त्यः प्रजास्तस्करादिभिरपि ह्रियन्ते स मृत एव नतु जीवति । जीवनकार्याभावाजीव- नमपि तस्य मरणमेवेत्यर्थः ॥ १४३ ॥ तस्मात् 'अप्रमत्तः प्रजा रक्षेत्' इति पूर्वोक्तशेषं तदेव दृढयति- क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ १४४ ॥ क्षत्रियस्येति ॥ धर्मान्तरेभ्यः श्रेष्टं क्षत्रियस्य प्रजारक्षणमेव प्रकृष्टो धर्मः । यस्माद्यथोक्तलक्षणफलकरादिभोक्ता राजा धर्मेण संबध्यते ॥ १४४ ॥ उत्थाय पश्चिमे यामे कृतशौचः समाहितः। हुताग्निर्ब्राह्मणांश्चार्य प्रविशेत्स शुभां सभाम् ॥ १४५ ॥ उत्थायेति ॥ स भूपो रात्रेः पश्चिमयाम उत्थाय कृतमूत्रपुरीपोत्सर्गादिशौचो- ऽनन्यमनाः कृताग्निहोत्रावसथ्यहोमो ब्राह्मणान्पूजयित्वा वास्तुलक्षणाद्युपेतां सभाममात्यादिदर्शनगृहं प्रविशेत् ॥ १४५ ॥ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्ध विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मत्रिभिः॥१४६ ॥ तत्रेति ॥ तस्यां सभायां स्थितो दर्शनार्थमागताः प्रजाः सर्वाः संभाषणदर्श- नादिभिः प्रतिनन्ध प्रस्थापयेत् । ताश्च प्रस्थाप्य मत्रिभिः सह संधिविग्रहादि चिन्तयेत् ॥ १४६ ॥ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा मत्रयेदविभावितः॥१४७॥ गिरिपृष्ठमिति ॥ पर्वतपृष्ठमारुह्य निर्जनवनगृहस्थितोऽरण्यदेशे वा विविक्ते मन्त्रभेदकारिभिरनुपलक्षितः। कर्मणामारम्भोपायः, पुरुपद्रव्यसंपत् , देशकालवि- विनिपातप्रतीकारः, कार्यसिद्धिरित्येवं पञ्चाङ्गं मन्वं चिन्तयेत् ॥ १४७ ॥ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः। स कृत्स्नां पृथिवीं भुते कोशहीनोऽपि पार्थिवः ॥१४८।। यस्येति ॥ यस्य राज्ञो मन्त्रिभ्यः पृथगन्ये जना मिलित्वास्य मत्रं न जानन्ति स क्षीणकोशोऽपि सर्वां पृथिवीं भुनक्ति ॥ १४८ ॥ जडमूकान्धबधिरांस्तैर्यग्योनान्वयोतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान्मन्त्रकालेऽपसारयेत् ॥ १४९ ॥ भागः,