पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २५३ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ १३६ ॥ संरक्ष्यमाण इत्यादि ॥ स च श्रोत्रियो राज्ञा सम्यग्रक्ष्यमाणो यं धर्म प्रत्यहं करोति तेन राज्ञ आयुर्धनराष्ट्राणि वर्धन्ते ॥ १३६ ॥ यत्किचिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ १३७ ।। यदिति ॥ राजा स्वदेशे शाकपर्णादिस्वल्पमूल्यवस्तुविक्रयक्रयादिना जीवन्तं निकृष्टजनं स्वल्पमपि कराख्यं वर्षेण दापयेत् ॥ १३७ ॥ कारुकाछिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः। एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ १३८ ॥ कारुकानिति ॥ कारुकान्सूपकारादीन् शिल्पिभ्य ईषदुत्कृष्टान्, शिल्पिनश्च लोहकारादीन्, शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासि मास्येकं दिनं कर्म कारयेत् ॥ १३८॥ नोच्छिन्द्यादात्मनो मूलं परेपां चातितृष्णया । उच्छिन्दन्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ १३९ ॥ नोच्छिन्द्यादिति ॥ प्रजास्नेहात्करशुल्कादेरग्रहणमात्मनो मूलच्छेदः, अतिलो- भेन प्रचुरकरादिग्रहणं परेषां मूलोच्छेदः एतदुभयं न कुर्यात् । यस्माद् आ- मनो मूलमुच्छिद्य कोशक्षयादात्मानं पीडयेत् । पूर्वार्धात्परेषां चेत्यपि संबध्यते । परेषां मूलमुच्छिद्य तांश्च पीडयेत् ॥ १३९ ॥ तीक्ष्णश्चैव मृदुश्च स्यात्कार्य वीक्ष्य महीपतिः। तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः॥ १४० ॥ तीक्ष्ण इति ॥ कार्यविशेषमवगम्य क्वचित्कार्य तीक्ष्णः क्वचिन्मृदुश्च भवेन्न यस्मादुक्तरूपो राजा सर्वेषामभिमतो भवति ॥ ५४० ॥ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तसिन्खिन्नः कार्येक्षणे नृणाम् ॥ १४१ ॥ अमात्येति ॥ स्वयं कार्यदर्शने खिन्नः श्रेष्टामात्यं धर्मविदं प्राज्ञं जितेन्द्रियं कुलीनं तस्मिन्कार्यदर्शनस्थाने नियुञ्जीत ॥ १४१ ॥ एवं सर्व विधायेदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ १४२ ॥ एवमित्यादि ॥ एवमुक्तप्रकारेण सर्वमात्मनः कार्यजातं संपाद्योयुक्तः प्रमादर. हित आत्मीयाः प्रजा रक्षेत् ॥ १४२ ॥ . मनु० २२