पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२५२ मनुस्मृतिः। [अध्यायः७ अत्र दृष्टान्तमाह- यथाल्पाल्पमदन्त्याचं वार्योकोवत्सषट्दाः । तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः॥ १२९ ॥ यथेत्यादि ॥ यथा जलौकोवत्सभ्रमराः स्तोकस्तोकानि रक्तक्षीरमधून्यदन्त्येवं राज्ञा मूलधनमनुच्छिन्दताल्पोल्पो राष्ट्रादाब्दिकः करो ग्राह्यः ॥ १२९ ॥ तमाह- पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः। धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ १३० ॥ पञ्चाशद्भाग इत्यादि ॥ मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो राज्ञा ग्रही- तव्यः । एवं धान्यानां पष्टोऽष्टमो द्वादशो वा भागो राज्ञा ग्राह्यः । भूम्युत्कीप- कांपेक्षया कर्षणादिक्लेशलाघवगौरवापेक्षश्वायं बह्वल्पग्रहणविकल्पः ॥ १३० ॥ आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ १३१॥ पत्रशाकतृणानां च चर्मणां वैदलय च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३२ आददीतेत्यादि ॥ पनशाकेत्यादि ॥ द्रुशब्दोऽत्र वृक्षवाचकः । वृक्षादीनां सतदशानामश्ममयान्तानां षष्टो भागो लाभाद्रहीतव्यः॥ १३१ ॥ १३२ ॥ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधास्य संसीदेच्छोत्रियो विषये वसन् ॥ १३३ ॥ नियमोज इति क्षीणधनोऽपि राज्ञा श्रोत्रियब्राह्मणात्करं न गृह्णीयात् । नच तदीयदेशे वसन्श्रोत्रियो बुभुक्षयावसादं गच्छेत् ॥ १३३ ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ १३४ ॥ यस्येत्यादि ॥ यस्य राज्ञो देशे श्रोत्रियः क्षुधावसन्नो भवति तस्य राष्ट्रमपि दुर्मि- क्षादिभिः क्षुधा शीघ्रमवसादं गच्छति ॥ १३४ ॥ श्रुतवृत्ते विदित्वास वृत्तिं धा प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ १३५ ॥ यत एवमतः श्रुतेति ॥ शास्त्रज्ञानानुष्टाने ज्ञात्वा अस्य तदनुरूपां धर्मादन- पेतां जीविकामुपकल्पयेत् । चौरादिभ्यश्चैनमौरसं पुनमिव पिता रक्षेत् ॥ १३५॥