पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ७] मन्वर्थनुक्तावलीसंवलिता। २५१ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः। तेषां सर्वस्खमादाय राजा कुर्यात्प्रवासनम् ॥ १२४ ॥ व इत्यादि ॥ ये रक्षाधिकृताः कार्याथिभ्य एव वाक्छलादिकमुद्भाव्य लोभाद- शास्त्रीयधनग्रहणें पापबुद्धयः कुर्वन्ति तेषां सर्वस्वं राजा गृहीत्वा देशान्निःसारणं कुर्यात् ॥ १२४ ॥ राजा कर्मसु युक्तानां स्त्रीणां प्रेप्यजनस्य च । प्रत्यहं कल्पयेदृत्तिं स्थानं कर्मानुरूपतः ॥ १२५ ॥ राजेत्यादि । राजोपयुक्तकर्मनियुक्तानां स्त्रीणां दास्यादीनां कर्मकरजनस्य चो- कृष्टमध्यमापकृष्टस्थानयोग्यानुरूपेण प्रत्यहं कर्मानुरूपेण वृत्तिं कुर्यात् ॥ १२५ ॥ तामेव दर्शयति-- पणो देयोऽवकृष्टस्य पडुत्कृष्टस्य वेतनम् । पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ १२६॥ पण इति ॥ अवकृष्टस्य गृहादिसंमार्जकोदकवाहादे. कर्मकरस्य वक्ष्यमाणलक्षणः पो मृतिरूपः प्रत्यहं दातव्यः । पाण्मासिकश्चाच्छादो वस्त्रयुगं दातव्यम् । 'अष्ट- मुष्टिर्भवेत्किंचित्किंचिदष्टौ च पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकी- र्तितः ५ चतुराढको भवेद्रोणः' इति गणनया धान्यद्रोणश्च प्रतिमासं देयः । उत्कृ- टस्य तु भृतिरूपाश्च पद पणा देयाः । अनयैव कल्पनया पाण्मासिकानि षट् वस्त्र- बुगानि देयानि । प्रतिमासं पाण्मास्या द्रोणा देयाः । अनयैवातिदिशा मध्यमस्य पणत्रयं भृतिरूपं दातव्यम् । पाण्मासिकं च वस्त्रयुगत्रयं मासिकं च धान्यं द्रोणत्रयं देयम् ॥ १२६ ॥ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ १२७ ।। ऋयविक्रयमित्यादि ॥ कियता मूल्येन क्रीतमिदं वस्त्रं, लवणादिद्रव्यं विक्रीय- माणं चात्र किचल्लभ्यते, कियइरादानीतं, किमस्य वणिजो भक्तव्ययेन शाकसूपा- दिना परिव्ययेण लग्नं, किसस्यारण्यादौ चौरादिभ्यो रक्षारूपेण क्षेमप्रतिविधानेन रगती, कोऽस्येदानी लाभयोग इत्येतदवेक्ष्य वणिजः करान्दापयेत् ॥ १२७ ॥ ध खथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य तृपो राष्ट्र कल्पयेत्सततं करान् ॥१२८ ॥ यथेति ॥ यथा राजाऽवेक्षणादिकर्मणः फलेन, यथा च वार्षिकवणिगादयः कृषिवाणिज्यादिकर्मणां फलेन संबध्यन्ते तथा निरूप्य राजा सर्वदा राष्ट्रे करा- न्गृह्णीयात् ॥ १२८ ॥