पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४९ मोहाद्राजा स्वराष्ट्र यः कर्षयत्यनवेक्षया । सोऽचिराद्भश्यते राज्याजीविताच सबान्धवः ॥ १११ ।। मोहादित्यादि ॥ यो राजा अनवेक्षया दुष्टशिष्टाज्ञानेन सर्वानेव स्वराष्ट्रीयजना- शास्त्रीयधनग्रहणमारणादिकष्टेन पीडयति स शीघ्रमेव जनपदवैराख्यप्रकृतिको पाधमैं राजा राज्याज्जीविताच पुत्रादिसहितो भ्रश्यते ॥ १११ ॥ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ११२ ॥ शरीरकर्षणेनि ॥ यथा प्राणभृतामाहारनिरोधादिना शरीरशोपणात्प्राणाः क्षीय- न्ते, एवं राज्ञामपि राष्ट्रपीडनात्प्रकृतिकोपादिना प्राणा विनश्यन्ति । तस्मात्स्वशरी- रवद्वाज्ञा राष्ट्रं रक्षणीयमित्युक्तम् ॥ ११२ ॥ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ ११३ ॥ राष्ट्रस्येत्यादि । राष्ट्रस्य रक्षणे च वक्ष्यमाणमिममुपायमनुतिष्ठेत् । यस्मात्संरक्षि- तराष्ट्रो राजाऽनायासेन वर्धते ॥ ११३ ॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥ ११४ ॥ द्वयोरिति ॥ द्वयोमियोर्मध्ये त्रयाणां वा ग्रामाणां पञ्चानां वा शतानां गुल्म रक्षितृपुरुषसमूहं सत्यप्रधानपुरुषाधिष्ठितं राष्ट्रस्य संग्रहं रक्षास्थानं कुर्यात् । अस्य लाघवगौरवापेक्षश्चोक्तविकल्पः ग्रामस्थाधिपतिं कुर्याद्दशग्रामपति तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥ ११५ ॥ ग्रामस्येति ॥ एकग्रामदशग्रामाद्यधिपतीन्कुर्यात् ॥ ११५ ॥ ग्रामदोषान्समुत्पन्नान्ग्रामिकः शनकैः स्वयम् । शंसेद्रामदशेशाय दशेशो विंशतीशिने ॥ ११६ ॥ विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्रामशतेशस्तु सहस्पतये स्वयम् ॥ ११७ ॥ ग्राम इति ॥ विंशतीश इति ॥ग्रामाधिपतिश्चौरादिदोषान्नामे संजातानात्मना प्रतिकर्तुमक्षमोऽनुत्कृष्टतया स्वयं दशग्रामाधिपतये कथयेत् । एवं दशग्रामादि- पतयो विंशतिग्रामस्वाम्यादिभ्यः कथयेयुः। तथाच सति सम्यक् चौरादिकण्टको- द्धारो भवति ॥ ११६ ॥ १७ ॥

॥ ११४ ॥