२४८
मनुस्मृतिः। [अध्यायः ७
यत्येवं राज्याङ्गान्यमात्यादीनि दानसमानादिनात्मसात्कुर्यात् । दैवाच प्रकृतिभेदा-
दिरूपे छिद्रे जाते यत्नतः प्रतीकारं कुर्यात् ॥ १०५ ॥
बकवचिन्तयेदान्सिहवच्च पराक्रमेत् ।
वृकबच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०६ ।।
बकवदिति ॥ यथा बको जले मीनमतिचञ्चलस्वभावमपि मत्स्यग्रहणादेकता-
नान्तःकरणश्चिन्तयत्येवं रहसि सुविहितरक्षस्थापि विपक्षस्य देशग्रहणादीन -
श्चिन्तयेत् । यथाच सिंहः प्रबलमतिस्थूलमपि दन्तीबलं हन्तुमाक्रमत्येवमल्पबलो
बलवतोपक्रान्तः संश्रयाधुपायान्तरासंभवे सर्वशक्त्या शत्रु हन्तुमाक्रमेत् । यथा
च वृकः पालकृतरक्षणमपि पशुं दैवात्पालानवधानमासाद्य व्यापादयत्येवं दुर्गाद्य-
वस्थितमपि रिपुं कथंचित्प्रमादमासाद्य व्यापादयेत् । यथा शशः वधो रविविध-
व्याधमध्यगतोऽपि कुटिलगतिरुप्लुत्य पलायते, एवं स्वयमबलो बलवदरिपरिवृतो-
ऽपि कथंचिदरिव्यामोहमाधाय गुणवत्पार्थिवान्तरं संश्रयितुमुपसर्पेत् ॥ १०६ ॥
एवं विजयमानस्य येऽस्य स्युः परिपन्धिनः ।
तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ॥ १०७॥
एवमित्यादि ॥ एवमुक्तप्रकारेण विजयप्रवृत्तस्य नूपतेये विजयविरोधिनो भवेयु.
न्तान्सर्वान्सामनभददण्डैरुपायैर्वशमानयेत् ॥ १०७ ।।
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः ।
दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥ १०८ ॥
यदीत्यादि ॥ ते च विजयविरोधिनो यद्याद्यैत्रिभिरुपायैर्न निवर्तन्ते तदा बला-
हेशोपमर्दादिना युद्धेन शनकैर्लघुगुरुदण्डक्रमेण दण्डेन वशीकुर्यात् ॥ १०८ ॥
सामादीनामुपायानां चतुर्णामपि पण्डिताः।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥१०९ ॥
सामादीनामिति ॥ चतुर्णामपि सामादीनामुपायानां मध्यात्सामदण्डादेव राष्ट्र-
वृद्ध्यर्थ पण्डिताः प्रशंसन्ति । साम्नि प्रयासधनव्ययसैन्यक्षयादिदोषाभावाहण्डे तु
तत्सद्भावेऽपि कार्यसिद्ध्यतिशयात् ॥ १०९ ॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन्नृपो राष्ट्र हन्याच्च परिपन्थिनः ॥ ११० ॥
यथेत्यादि ॥ यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्ता
रक्षति तृणादिकं चोद्धरति, एवं नृपती राष्ट्रे दुष्टान्हन्यान्नत्वदुष्टांस्तदीयसहजान्भ्रा-
तॄनपि निदातृदृष्टान्तादवसीयते । शिष्टसहितं च राष्ट्रं रक्षेत् ॥ ११०॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
