पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ७ एतच्च घण्टे 'प्रियेषु स्वेषु सुकृतम्' इत्यत्राविष्कृतमस्माभिः । 'पराङ्मुखहतस्य स्या- लापमेतद्विवक्षितम् । न त्वत्र प्रभुपापं स्यादिति गोविन्दराजकः ॥ मेधातिथिस्त्व- र्थवादमात्रमेतन्निरूपयन् । मन्ये नैतद्वयं युक्तं व्यक्तमन्वर्थवर्जनात्' । 'अन्य- दीयपुण्यपापेऽन्यत्र संक्रमेते' इति शास्त्रप्रामाण्याद्वेदान्तसूत्रकृता बादरायणेन निर्णीतोऽयमर्थ इति यथोक्तमेव रमणीयम् ॥ ९४ ॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस तु ॥ ९५ ॥ यञ्चेत्यादि । पराङ्मुखहतस्य यत्किंचित्सुकृतं परलोकार्थमर्जितमनेनास्ति तत्सर्व भुर्लभते ॥ ९५ ॥ राज्ञः स्वामिनः सर्वधनग्रहगे प्राप्ते तदपवादार्थमाह- स्थाश्वं हस्तिनं छत्रं धनं धान्यं पशून्त्रियः। सर्वद्रव्याणि कुप्यं च यो यजयति तस्य तत् ॥ ९६॥ रधाश्वमित्यादि ॥ रथाश्वहस्तिछत्रवस्त्रादि, धनधान्यगवादि, दास्यादि, स्त्रियः, सर्वाणि द्रव्याणि गुडलवणादीनि, कुप्यं च सुवर्णरजतव्यतिरिक्तं ताम्रादि धनं, यः पृथग्जिन्या सततं गृहमानयति तस्यैव तद्भवति । सुवर्णरजतभूमिरत्नाद्यनपकृष्टधनं दु राज्ञ एव समर्पणीयं एतदर्थमेवान परिगणनीयम् ॥ ९६ ॥ अत एवाह- राज्ञश्च दबुरुद्धारमित्येषा वैदिकी श्रुतिः। राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ९७ ॥ राज्ञ इत्यादि ॥ उद्धारं योद्धारो राज्ञे दद्युः । उद्रियत इत्युद्धारः। जितधनादु- कृष्टधनं सुवर्णरजतकुप्यादि राज्ञे समर्पणीयं । करितुरगादि वाहनमपि राज्ञे देयम्। 'वाहनं च राज्ञ उद्धारं च' इति गोतमवचनात् । उद्धारदाने च श्रुतिः 'इन्द्रो वै वृत्रं हत्वा' इत्युपक्रम्य स महान्भूत्वा देवता अब्रवीदुद्धारं समुद्धरत' इति । राज्ञा बाटथग्जितं सह जितं सर्वयोधेभ्यो यथापौरुषं संविभजनीयम् ॥ ९७ ॥ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो नत्रणे रिपून ॥ ९८ ॥ पुष इत्यादि । अविगर्हित एपोऽनादिसर्गप्रवाहसंभवतया नित्यो योधधर्म उक्तः । युद्धे शत्रून्हिसन्झंत्रिय एतं धर्म न त्यजेत् । युद्धाधिकारित्वात्क्षत्रियग्रह- गम् । अन्योऽपि तत्स्थानपतितो न त्यजेत् ॥ ९८ ॥ अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः। रक्षितं वर्धयेचैव वृद्धं पात्रेषु निःक्षिपेत् ॥ ९९ ॥