पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ मनुस्मृतिः । [अध्यायः ७ न्यादिनिधिरिव निधिरक्षयो ब्रह्मफलत्वादविनाशी राज्ञां शास्त्रेणोपदिश्यते ॥८२।। न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तसाद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ८३ ॥ अत एव न तमिति ॥ तं ब्राह्मणस्थापितनिधिं न चौरा नापि शत्रवो हरन्ति, अन्यनिधिवद्भूम्यादिस्थापितः कालवशान्न नश्यति । स्थानभ्रान्त्या वाऽदर्शन- मुपैति । तस्माद्योऽयमक्षयोऽनन्तफलो निधिरिव निधिर्धनौधः स राज्ञा ब्राह्मणेषु निधातव्यः । तेभ्यो देय इत्यर्थः ॥ ८३ ॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ८४॥ नेत्यादि । अग्नौ यद्धविहूयते तत्कदाचित्स्कन्दते स्रवत्यधः पतति, कदाचिद्व्यथते शुष्यति, कदाचिद्दाहादिना नश्यति, ब्राह्मणस्य मुखे यद्भुतं 'पाण्यात्यो हि द्विजः स्मृतः' इति ब्राह्मणहस्तदत्तमित्यर्थः । तस्य नोक्ता दोषाः । तस्मादग्निहोत्रादिभ्यः श्रेष्टं ब्राह्मणाय दानमित्यर्थः ॥ ८४ ॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ ८५॥ सममित्यादि ॥ ब्राह्मणेतरक्षत्रादिविपये यहानं तत्समफलं यस्य देयद्रव्यस्य यत्फलं श्रुतं ततो नाधिकं नच न्यूनं भवति । यो ब्राह्मणः क्रियारहित आत्मानं ब्राह्मणं ब्रवीति स ब्राह्मणब्रुवः । तद्विषयदानं पूर्वापेक्षया द्विगुणफलम् । एवं प्राधीते प्रक्रान्ताध्ययने ब्राह्मणे लक्षगुणं फलं । समस्तशाखाध्यायिन्यनन्तफलं । 'सहस्रगुणमाचार्ये' इति वा तृतीयपादस्य पाठः ॥ ८५ ॥ पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ ८६ ॥ पात्रस्येति ॥ विद्यातपोवृत्तियुक्ततया पात्रस्य तारतम्यमपेक्ष्य शास्त्रे तथेति प्रत्य- यरूपायाः श्रद्धायास्तारतम्यपात्रमासाद्य दानस्याल्पं महद्वाफलं परलोके लभ्यते ८६ समोत्तमाधमै राजा त्वाहूतः पालयन्प्रजाः। न निवर्तेत संग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ ८७ ॥ समोत्तमाधमैरिति ॥ समबलेनाधिकबलेन हीनबलेन च राज्ञा युद्धार्थमाहूतो राजा प्रजारक्षणं कुर्वन्युद्धान्न निवर्तेत । क्षत्रियेण युद्धार्थमाहूतेनावश्यं योद्ध- व्यमिति क्षात्रं धर्म स्मरन् ॥ ८७ ॥ संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ८८॥