पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २४१ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ।। ६५ ॥ अमात्य इति ॥ अमात्ये सेनापतौ हस्त्यश्वरथपादाताद्यात्मको दण्ड आयत्तः, तदिच्छया तस्य कार्येषु प्रवृत्तेः । विनययोगाद्वैनयिकी यो विनयः स दण्ड आयत्तः। नृपतावर्थसंचयस्थानदेशावायत्तौ राज्ञा पराधीनौ न कर्तव्यौ । स्वयमेव चिन्त- नीयं धनं ग्रामश्च । दूते संधिविग्रहावायत्तौ, तदिच्छया तत्प्रवृत्तेः ॥ ६५ ॥ दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवाः ॥ ६६ ॥ दूत एवेति ॥ यस्माइत एव हि भिन्नानां संधिसंपादने क्षमः । संहतानां च भेदने । तथा परदेशे दूतस्तत्कर्म करोति येन संहता भिद्यन्ते । तस्माइते संधि- विग्रहौ विपर्ययावायत्ताविति यदुक्तं तस्यैवायं प्रपञ्चः ॥ ६६ ॥ दूतस्य कार्यान्तरमाह- स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ६७ ॥ स विद्यादिति ॥ स दूतोऽस्य प्रतिराजस्य कर्तव्ये आकारेङ्गितचेष्टां जानीयात् । निगूढा अनुचराः प्रतिपक्षनृपस्यैव परिजनास्तस्मिन्युक्तास्तत्सन्निधावपि तेषा- मिङ्गितचेष्टितैः भृत्येषु च क्षुब्धलुब्धापमानितेषु प्रतिराजस्य कर्तुमीप्सितं जा- नीयात् ॥ ६७ ॥ बुद्धा च सर्व तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ ६८ ॥ बुद्धा चेति ॥ उक्तलक्षणदूतद्वारेण प्रतिपक्षराजस्य कर्तुमिष्टं सर्वं तत्त्वतो ज्ञात्वा तथा प्रयत्नं कुर्यात् । यथात्मनः पीडा न भवति ॥ ६८ ॥ जागलं सस्यसंपन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ६९॥ जाङ्गलमिति ॥ 'अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देशो बहुधान्यादिसंयुतः' । प्रचुरधार्मिकजनं रोगोपसर्गाद्यैरनाकुलं फलपुष्पतरुल- तादिमनोहरं प्रणतसमीपवास्तव्याटविकादिजनं सुलभकृषिवाणिज्याद्याजीवनमा- श्रित्यावासं कुर्यात् ॥ ६९ ॥ धन्वदुर्ग महीदुर्गमब्दुर्ग वार्थमेव वा । नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥ ७० ॥ मनु० २१