पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३१ .. संप्रति दृष्टदोषमाह- एकमेव दहत्यग्निर्नर दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥९॥ एकमित्यादि ॥ योऽरतिसमीपमनवहितः सन्नुपसर्पति तं दुरुपसर्पिणमेक- मेवाग्निर्दहति न तत्पुत्रादिकम् । क्रुद्धो राजाग्निः पुत्रदारभ्रात्रादिरूपं कुलमेव गवाश्वादिपशुसुवर्णादिधनसंचयसहितं सापराधं निहन्ति ॥ ९ ॥ कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः। कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः॥१०॥ कार्यमित्यादि ॥ स राजा प्रयोजनापेक्षया स्वशक्तिं देशकालौ चावेक्ष्य कार्य- सिद्ध्यर्थं तत्त्वतो विश्वरूपं बहूनि रूपाणि करोति । जातिविवक्षया बहुप्वेकवच- नम् । अशक्तिदशायां क्षमते शक्तिं प्राप्योन्मूलयति, एवमेकस्मिन्नपि देशे काले च प्रयोजनानुरोधेन शत्रुर्वा मित्रं वा उदासीनो वा भवति अतो राजवल्लभोऽह- मिति बुद्ध्या नावज्ञेयः ॥ १० ॥ यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतजोमयो हि सः॥११॥ यस्येत्यादि ॥ पद्माशब्दः श्रीपर्यायोऽपि महत्त्वविवक्षयात्र प्रयुक्तः। यस्य प्रसा- दान्महती श्रीर्भवत्यतः श्रीकामेन सेव्यः । यस्य शत्रवः सन्ति तानपि संतो- षितो हन्ति । तेन च शत्रुवधकामेनाप्याराधनीयः । यस्मै क्रुध्यति तस्य मृत्यु करोति, तस्माज्जीवनार्थिना न क्रोधनीयः । यस्मात्सर्वेषां सूर्याग्निसोमादीनां तेजो बिभर्ति ॥ ११ ॥ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः॥ १२ ॥ तमित्यादि ॥ तं राजानमज्ञतया यो द्वेष्टि तस्याप्रीतिमुत्पादयति स निश्चितं राजक्रोधानश्यति । यस्मात्तस्य विनाशाय शीघ्रं राजा मनो नियुते ॥ १२॥ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ १३ ॥ यसादित्यादि ॥ यतः सर्वतेजोमयो नृपतिस्तस्मादपेक्षितेषु यमिष्टं शास्त्रानुष्टेयं शास्त्राविरुद्धं निश्चित्य व्यवस्थापयत्यनपेक्षितेषु चानिष्टं नियमं नातिकामेत् ॥१३॥ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥ १४ ॥ तस्यार्थ इति ॥ तस्य राज्ञः प्रयोजनसिद्धये सर्वप्राणिनां रक्षितारं धर्मस्वरूपं पुत्रं ब्रह्मणो यत्केवलं तेजस्तेन निर्मितं न पाञ्चभौतिकं देहं ब्रह्मा पूर्व सृष्टवान् १४