पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२३० मनुस्मृतिः । [ अध्यायः ७ क्षत्रियवैश्यकर्मणी जीवनार्थमापदि जगाद नारदः-'न कथंचन कुर्वीत ब्राह्मणः कर्म वापलम् । वृषलः कर्म च ब्राह्मं पतनीये हि ते तयोः ॥ उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ सा वेदध- मार्थ तपः क्षत्रस्य रक्षणम्' इति। 'सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणे' इति च वक्ष्यमाणत्वादक्षितुर्बलिपड्भागग्रहणादृष्टार्थमपि 'यो रक्षन्बलिमादत्ते' इति, नरकपातं वक्ष्यति ॥ २॥ अराजक हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ३॥ अराजक इति ॥ यस्मादराजके जगति बलवद्भयात्सर्वतः प्रचलिते सर्वस्यास्य चराचरस्य रक्षायै राजानं मृष्टवांस्तस्मात्तेन रक्षणं कार्यम् ॥३॥ कथं मृष्टवानित्याह- इन्द्रानिलयमाकाणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निहत्य शाश्वतीः॥४॥ इन्द्रेति ॥ इन्द्रवातयमसूर्याग्निवरुणचन्द्रकुबेराणां मात्रा अंशान्सारभूताना- कृप्य राजानमसृजत् ॥४॥ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥५॥ यस्मादिति ॥ यस्मादिन्द्रादीनां देवश्रेष्टानामशेभ्यो नृपतिः सृष्टस्तस्मादेष सर्वप्राणिनो वीर्येणातिशेते ॥ ५॥ तपत्यादित्यवच्चैष चढूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥६॥ तपतीत्यादि ॥ अयं च राजा स्वतेजसा सूर्य इव पश्यतां चढूंषि मनांसि च संतापयति, न चैनं राजानं पृथिव्यां कश्चिदप्याभिमुख्येन द्रष्टुं क्षमते ॥ ६ ॥ सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ ७ ॥ स इत्यादि ॥ एवं चान्यादीनां पूर्वोक्तांशभवत्वात्तत्कर्मकारित्वाच्च प्रताप उक्त- स्तेजस्वीत्यादिना नवमाध्याये वक्ष्यमाणत्वात् स राजा शक्त्यतिशयेनाश्यादिरूपो भवति ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येपा नररूपेण तिष्ठति ॥ ८॥ बाल इत्यादि । ततश्च मनुष्य इति बुद्ध्या बालोऽपि राजा नावमन्तव्यः । यसान्महतीयं काचिद्देवता मानुषरूपेणावतिष्ठते । एतेन देवतावज्ञायामधर्मा- दयोऽदृष्टदोपा उक्ताः ॥ ८ ॥