पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २२९ न्तारहितः सुखं वसेत् । अयमेवासाधारणो धर्मः कुटीचरस्योक्तः । इदमेव वक्तुं 'वेदसंन्यासिनां तु' इति पूर्वमुक्तम् ॥ ९५॥ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ९६ ॥ एवमिति ॥ एवमुक्तप्रकारेण वर्तमानोऽग्निहोत्रादिगृहस्थकर्माणि परित्यज्यात्म- साक्षात्कारस्वरूपस्वकार्यप्रधानः स्वर्गादावपि बन्धहेतुतया निःस्पृहः प्रव्रज्यया पापानि विनाश्य ब्रह्मसाक्षात्कारेण परमां गतिं मोक्षलक्षणां प्राप्नोति ॥ ९६ ॥ एप वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः। पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्म निबोधत ॥ ९७॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां पष्टोऽध्यायः ॥ ६ ॥ एप इति ॥ ऋपीन्संबोध्योच्यते । एप युग्माकं ब्राह्मणस्य संबन्धी क्रियाकलापो धर्मस्तस्यैव ब्रह्मचारिगृहस्थवानप्रस्थादिभेदेन चतुर्विधः परत्राक्षयफल उक्तः । इदानी राजसंबल्धिनं धर्म शृणुत । अत्र च श्लोके ब्राह्मणस्य चातुराश्रम्योपदेशा- ब्राह्मणः प्रवादिति पूर्वमभिधानाद्राह्मणस्यैव प्रव्रज्याधिकारः ॥ ९७ ॥ इति श्रीकुल्लुकभट्टकृताया मन्वर्यमुक्तावल्यां मनुवृत्तौ पष्ठोऽध्यायः ॥ ६ ॥ सप्तमोऽध्यायः । राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥१॥ राजधर्मानिति ॥ धर्मशब्दोऽत्र दृष्टादृष्टार्थानुष्टेयपर., पाडण्यादेरपि वक्ष्यमाण- स्वात् । राजशब्दोऽपि नात्र क्षत्रियजातिवचनः किंवभिपिक्तजनपदपुरपालयि- तृपुरुपवचनः । अतएवाह 'यथावृत्तो भवेन्नृपः' इति । यथावदाचारो नृपतिर्भवे- तथा तस्यानुष्ठेयानि कथयिष्यामि । यथा येन प्रकारेण वा 'राजानमसृजत्प्रभुः' इत्यादिना तस्योत्पत्तिः यथा च दृष्टादृष्टफलसंपत्तिः तदपि वक्ष्यामि ॥ १ ॥ ब्राझं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ २॥ ॥ ब्रह्म वेदस्तत्याहयर्थतयोपनयनसंस्कारस्तं यथाशास्त्रं प्रामुवता क्षत्रियेणास्य सर्वस्य स्वविषयावस्थितस्य' शास्त्रानुसारेण नियमतो रक्षणं कर्तव्यम् । एतेन क्षत्रिय एव नान्यो राज्याधिकारीति दर्शितम् । अतएव शास्त्रार्थतत्त्वं क्षत्रियस्य जीवनाथ, तथा क्षत्रियस्य तु रक्षणं स्वकर्मसु श्रेष्टं च वक्ष्यति, ब्राह्मणस्य ह्यापदि 'जीवेक्षत्रियधर्मेण' इत्यभिधास्यति । वैश्यस्यापि क्षत्रियधर्म, शूद्रस्य च मनु० २० .