पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ मनुस्मृतिः। [अध्यायः६ तथा- यदेति ॥ यदा परमार्थतो विपयदोषभावनया सर्व विषयेषु निरभिलाषो भवति तदेह लोके संतोषजन्यसुखं परलोके च मोक्षसुखमविनाशि प्राप्नोति ॥ ८० ॥ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ्छनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ ८१ ॥ अनेनेति ॥ पुत्रकलत्रक्षेत्रादिपु ममत्वरूपान्क्रमेण सङ्गान्सस्त्यिक्त्वा द्वन्द्वैर्मा- नापमानादिभिर्निर्मुक्तोऽनेन यथोक्तेन ज्ञानकर्मानुष्टानेन ब्रह्मण्येवात्यन्तिकं लय- माप्नोति ॥ ८१ ॥ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् । न ह्यनध्यात्मवित्कश्चिक्रियाफलमुपाश्नुते ॥ ८२ ॥ ध्यानिकमिति ॥ यदेतदित्यत्यन्तसंनिधानात्पूर्वश्लोकोदितं परामृश्यते । यदेत- दुक्तं पुत्रादिममत्वत्यागो मानापमानादिहानिर्ब्रह्मण्येवावस्थानं सर्वमेवैतड्यानिक- मात्मनः परमात्मत्वेन ध्याने सति भवति । यदात्मानं परमात्मेति जानाति तदा सर्वसत्वान्न विशिष्यते तस्य न कुत्रचिन्ममत्वं मानापमानादिकं वा भवति, विधज्ञानाद्ब्रह्मात्मत्वं च जायते । ध्यानिकविशेषाद्ध्येयविशेषलाभे परमात्मध्याना- र्थमाह -न ह्यनध्यात्मविदिति ॥ यस्मादात्मानं जीवमधिकृत्य यदुक्तं तस्य पर- मात्मत्वं तद्यो न जानाति न ध्यायति स प्रकृतध्यानक्रियाफलं ममत्वत्यागमा- नापमानादिहानि मोक्षं च न प्राप्नोति ॥ ८२ ॥ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ।। ८३॥ अधियज्ञमिति ॥ पूर्वं ब्रह्मध्यानस्वरूपमुपासनमुक्तं । इदानीं तदङ्गतया वेद- जपं विधत्ते । तथाच श्रुतिः-'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति विद्याङ्गतया वेदजपमुपदिशति-अधियज्ञमिति ॥ यज्ञमधिकृत्य प्रवृत्तं ब्रह्म वेदं तथा देवतामधिकृत्य प्रवृत्तं तथा जीवमधिकृत्य तथा वेदान्तेषूक्तं 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिब्रह्मप्रतिपादकं सर्वदा जपेत् ॥ ८३ ॥ इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ८४ ॥ इदमिति ॥ इदं वेदाख्यं ब्रह्म तदर्थानभिज्ञानामपि शरणं गतिः, पाठमात्रे णापि पापक्षयहेतुत्वात् । सुतरां तज्जानतां तदर्थाभिज्ञानां स्वर्गमपवर्ग चेच्छ- तामिदमेव शरणं, तदुपायोपदेशकत्वेन तत्प्राप्तिहेतुत्वात् ॥ ८४ ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः। स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ८५ ॥ अनेनेति ॥ अनेन यथाक्रमोक्तानुष्टानेन यः प्रव्रज्याश्रममाश्रयति स इह लोके