पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६ ] मन्वर्थमुक्तावलीसंवलिता। २२५ एव दुर्गन्धि । जरोपतापाभ्यामाकान्तं, विविधव्याधीनामाश्रयं, आतुरं क्षुत्पिपा- साशीतोष्णादिकातरं, प्रायेण रजोगुणयुक्तं, विनश्वरस्वभावं च, आवासो गृहं पृथि- व्यादिभूतानि तेषामावासं, देहमेव जीवस्य गृहत्वेन निरूपितं त्यजेत् । यथा पुनर्देहसंबन्धो न भवेत्तथा कुर्यात् । गृहसाम्यमेवोक्तमस्थीत्यादिना ॥ ७६॥७७॥ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजनिमं देहं कृच्छ्राद्भाहाद्विमुच्यते ॥ ७८ ॥ नदीकूलमिति ॥ ब्रह्मोपासकस्य देहत्यागसमये मोक्षः, आरब्धदेहस्य कर्मणो भोगेनैव नाशात् तत्र देहत्यक्तुद्वैविध्यमाह । यः कमाधीनं देहपातमवेक्षते स नदीकूलं यथा वृक्षस्त्यजति स्वपातमजानन्नेव नदीरयेण पात्यते, तथा देहं त्यज- न्यश्च ज्ञानकर्मप्रकर्षाद्भीष्मादिवत्स्वाधीनमृत्युः स यथा पक्षी वृक्षं स्वेच्छया त्यजति तथा देहमिमं त्यजन् संसारकष्टाहाहादिव जलचरमाणिभेदाद्विमुच्यते॥७८॥ प्रियेषु स्खेषु सुकृतमप्रियेषु च दुप्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ७९ ॥ प्रियेष्वित्यादि ॥ ब्रह्मविदात्मीयेषु प्रियेषु हितकारिषु सुकृतं अप्रियेष्वहितका- रिषु दुष्कृतं निक्षिप्य ध्यानयोगेन नित्यं ब्रह्माभ्येति ब्रह्मणि लीयते । तथाच श्रुतिः 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति । अपरा श्रुतिः 'तत् सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृ- तम्' इत्येवमादीन्येव वाक्यान्युदाहृत्य सुकृतदुष्कृतयोहानिमात्रश्रवणेऽप्युपायन प्रतिपत्तव्यमिति ब्रह्ममीमांसायां हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगा- यनवत्तदुक्तम्' इत्यादिसूत्रैर्बादरायणेन निरणायि । ननु परकीयसुकृतदुष्कृतयोः कथं परत्र संक्रान्तिः । उच्यते। धर्माधर्मव्यवस्थायां शास्त्रमेव प्रमाणं, संक्रामोऽपि तयोः शास्त्रप्रमाणक एव । अतः शास्त्रात्संक्रमणयोग्यावेतौ सियतः । अतः शास्त्रेण बाधान्न प्रतिपक्षानुमानोदयः, शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खादिव- दितिवत् । मेधातिथिगोविन्दराजौ तु स्वेषु प्रियेषु केनचित्कृतेषु ध्यानाभ्यासेना- त्मीयमेव सुकृतं तत्र कारणत्वेनारोप्य, एवमप्रियेष्वपि केनचित्कृतेष्वात्मीयमेव प्राग्जन्मार्जितं दुष्कृतं कारणत्वेन प्रकल्प्योद्धृत्य तत्संपादयितारौ पुरुषौ राग- द्वेषाख्यौ त्यक्त्वा नित्यं ब्रह्माभ्येति ब्रह्मस्वभावमुपगच्छतीति व्याचक्षाते । तन्न । विसृज्येति क्रियायां सुकृतं दुष्कृतमिति कर्मद्वयत्यागेन तत्संपादयितारावित्यश्रुत- कर्माध्याहारात्, कर्मद्वये च श्रुतक्रियात्यागेन कारणत्वेन प्रकल्प्येत्याद्यश्रुतक्रिया- ध्याहारात् । किंच । 'व्यासव्याख्यातवेदार्थमेवमस्या मनुस्मृतेः । मन्ये न कल्पितं गर्वादाचीनैर्विचक्षणैः' ॥ ७९ ॥ यदा भावेन भवति सर्वभावेषु निःस्पृहः। तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ८॥