पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ मनुस्मृतिः। [अध्यायः ६ उच्चावचेषु भूतेषु दुज्ञेयामकृतात्मभिः । ध्यानयोगेन संपश्येद्गतिमसान्तरात्मनः ॥ ७३ ॥ उच्चावचेप्वित्यादि ॥ अस्य जीवस्योत्कृष्टापकृष्टेषु देवपश्वादिषु जन्मप्रालिमकृता- त्मभिः शास्त्रैरसंस्कृतान्तःकरणैर्दुज्ञेयां ध्यानाभ्यासेन सम्यक् सकारणकं जानीयात्। ततश्चाविद्याकाम्यनिषिद्धकर्मनिर्मितेयं गतिरिति ज्ञात्वा ब्रह्मज्ञाननिष्टो भवेदिति तात्पर्यार्थः ॥ ७३॥ सम्यग्दर्शनसंपन्नः कर्मभिन निवद्ध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ ७४ ॥ सम्यग्दर्शनेति ॥ ततश्च तत्त्वतो ब्रह्मसाक्षात्कारवान्कर्मभिर्न निबध्यते कर्माणि तस्य पुनर्जन्मने न प्रभवन्ति, पूर्वाजितपापपुण्यस्य ब्रह्मज्ञानेन नाशात् । तथाच श्रुतिः–'तद्यथेपीकातूलमन्नौ प्रोतं प्रदूयेतैवं हास्य सर्व पाप्मानः प्रदूयन्त उभौ ब्रह्मैवैप भवति' इति श्रुत्या । तथा 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परा- वरे' इति अविशेषश्रुत्या पुण्यसंबन्धोऽपि बोध्यते, उत्तरकाले च दैवात्पापे कर्मणि प्रकृतेऽपि न पापसंश्लेषः । तथाच श्रुतिः-'पुष्करपलाश आपो न लिप्यन्त एव- मेवंविदि पापं कर्म न लिप्यते' इति । देहारम्भकपापपुण्यसंबन्धः परं नश्यति । अयमेव चार्थो ब्रह्ममीमांसायां तदधिगम उत्तरपूर्गधयोरश्लेषविनाशौ तब्धपदे- शात्' इति सूत्रेण बादरायणेन निरणायि । ब्रह्मसाक्षात्कारशून्यस्तु जन्ममरणप्रबन्धं लभते ॥ ७४ ॥ अहिंसयेन्द्रियासहैवैदिकैश्चैव कर्मभिः । तपसश्चरणश्चोग्रैः साधयन्तीह तत्पदम् ॥ ७५ ॥ अहिंसयेति ॥ निषिद्धहिंसावर्जनेनेन्द्रियाणां च विषयसङ्गपरिहारेण वैदिक- नित्यैः कर्मभिः, काम्यकर्मणां बन्धहेतुत्वात् । उक्तंच-'कामात्मता न प्रशस्ता' इति । तपसश्च यथासंभवमुपवासकृच्छ्रचान्द्रायणादेरनुष्टानैरिह लोके तत्पदं ब्रह्मात्यन्तिकलयलक्षणं प्रामुवन्ति । पूर्वश्लोकेन ब्रह्मदर्शनस्य मोक्षहेतुत्वमुक्तं अनेन तत्सहकारितया कर्मणोऽभिहितम् ॥ ७५ ॥ इदानीं मोक्षान्तरजोपायसंसारबैराग्याय देहस्वरूपमाह श्लोकद्वयेन- अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्ण मूत्रपुरीषयोः ॥ ७६ ॥ जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ ७७ ॥ अस्थीत्यादि ॥ जरेत्यादि च ॥ अस्थीन्येव स्थूणा इव यस्य तं अस्थिस्थूणं, स्नायुरज्जुभिराबद्धं, मांसरुधिराद्युपलिसं, चर्माच्छादितं, मूत्रपुरीषाभ्यां पूर्णमत