पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] मन्वर्थमुक्तावलीसंवलिता। २२३ संरक्षणार्थ जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६८॥ संरक्षणार्थमित्यादि ॥ शरीरस्यापि पीडायां सूक्ष्मपिपीलिकादिप्राणरक्षाथै रात्री दिवसे वा सदा भूमिं निरीक्ष्य पर्यटेत् । पूर्व केशादिपरिहारार्थ 'दृष्टिपूतं न्यसे- पादम्' इत्युक्तं, इदं तु हिंसापरिहारार्थमित्यपुनरुक्तिः ॥ ६८ ॥ अत्र प्रायश्चित्तमाह- अह्ना राच्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः। तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ६९ ॥ अह्ना राज्येति ॥ यतिर्यानज्ञानतो दिवसे रात्रौ वा प्राणिनो हन्ति तद्धननजनि- नितपापनाशार्थ स्नात्वा पद प्राणायामान्कुर्यात् । प्राणायामश्च 'सल्याहृति सप्रणवां गायत्री शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते' इति वसिष्टो- त्यात द्रष्टव्यः ॥ ६९ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः। व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ७० ॥ प्राणायामा इति ॥ ब्राह्मणस्येति निर्देशाद्राह्मणजातेरयमुपदेशो न यतेरेव । त्रयोऽपि प्राणायामाः सप्तभिर्व्याहृतिभिर्दशभिः प्रणवैर्युक्ताः, विधिवदित्यनेन सावित्र्या शिरसा च युक्ताः, पूरककुम्भकरेचकविधिना कृता ब्राह्मणस्य श्रेष्टं तपो ज्ञातव्यम् । पूरकादिस्वरूपं स्मृत्यन्तरेषु ज्ञेयम् । तथा योगियाज्ञवल्क्यः-'नासि- कोत्कृष्ट उच्छासो ध्मातः पूरक उच्यते । कुम्भको निश्चलश्वासो मुच्यमानस्तु रेचकः' । योऽपीत्यपिशब्देन योऽवश्यं कर्तव्याः, अधिककरणे त्वधिकपा- पक्षयः ॥ ७० ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। तथेन्द्रियाणां दद्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ७१ ॥ दह्यन्त इति ॥ धातूनां स्वर्णरजतादीनां यथा भूषायामग्निना ध्मायमानानां मलद्रव्याणि दह्यन्ते, एवं मनसो रागादयश्चक्षुरादेश्च विषयप्रवणत्वादयो दोषाः प्राणायामेन विषयानभिध्यानाद्ब्रह्यन्ते ॥ ७१ ॥ प्राणायामर्दहेद्दोषान्धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ७२ ॥ प्राणायामैरित्यादि ॥ एवं सति अनन्तरोक्तप्रकारेण प्राणायामै रागादिदोषान्द- हेत् । अपेक्षितदेशे परब्रह्मादौ यन्मनसो धारणं सा धारणा तया पापं नाशयेत् । प्रत्याहारेण विषयेभ्य इन्द्रियाकर्षणैर्विषयसंपर्कान्वारयेत् । ब्रह्मध्यानेनेति सोऽह- मस्मीति सजातीयप्रत्ययप्रवाहरूपेणानीश्वरान्गुणान् ईश्वरस्य परमात्मनो ये गुणा न भवन्ति क्रोधलोभासूयादयः तान्निवारयेत् ॥ ७२ ॥