पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ मनुस्मृतिः। [अध्यायः ६ ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ २८ ॥ ग्रामेति ॥ तस्याप्यसंभवे ग्रामादानीय ग्रामस्यान्नस्याष्टौ ग्रासापर्णशरावादि- खण्डेन पाणिनैव वा गृहीत्वा वानप्रस्थो भुञ्जीत ॥ २८ ॥ एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ २९ ॥ एताश्चेति ॥ वानप्रस्थ एता दीक्षा एतान्नियमानन्यांश्च वानप्रस्थशास्त्रोक्तान- भ्यसेत् । औपनिषदीश्च श्रुतीरुपनिषत्पठितब्रह्मप्रतिपादकवाक्यानि विविधान्य- स्यात्मनो ब्रह्मसिद्धये ग्रन्थतोऽर्थतश्चाभ्यसेत् ॥ २९ ॥ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः। विद्यातपोविवृद्ध्यर्थ शरीरस्य च शुद्धये ॥३०॥ ऋषिभिरिति ॥ यस्मादेता ऋषिभिर्ब्रह्मदर्शिभिः परिव्राजकैर्गृहस्थैश्च वानप्रस्थै- ब्रह्माद्वैतज्ञानधर्मयोर्विवृषर्थमुपनिषच्छ्रुतयः सेवितास्तस्मादेताः सेवेतेति पूर्व- स्यानुवादः ॥ ३० ॥ अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः॥ ३१ ॥ अपरेति ॥ अचिकित्सितव्याध्याधुगवेऽपराजितामैशानी दिशमाश्रित्याकुटिल- गतिर्युक्तो योगनिष्टो जलानिलाशन आशरीरनिपाताद्गच्छेत् । महाप्रस्थानाख्यं शास्त्रे विहितं चेदं मरणं तेन 'न पुरायुषः स्वःकामी न प्रेयात्' इति श्रुत्यापि न विरोधः । यतः स्वःकामिशब्दप्रयोगादवैधं मरणमनया निषिध्यते न शास्त्रीयम् ॥ ३१ ॥ आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ३२ ॥ आसामित्यादि ॥ एषां पूर्वोक्तानुष्ठानानामन्यतमेन टानेन शरीरं त्यक्त्वापगत- दुःखभयो ब्रह्मैव लोकस्तत्र पूजां लभते । मोक्षमाप्नोतीत्यर्थः । केवलकर्मणो वान--- प्रस्थस्य कथं मोक्ष इति चेन्न । 'विविधाश्चोपनिपदीरात्मसंशुद्धये श्रुतीः' इत्य- नेनास्याप्यात्मज्ञानसंभवात् ॥ ३२ ॥ यस्य तु मरणाभावस्तस्याह- वनेषु च विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्त्वा सङ्गान्परिव्रजेत् ॥ ३३ ॥ वनेष्वित्यादि ॥ अनियतपरिमाणत्वादायुषस्तृतीयभागस्य दुर्विज्ञानात्तृतीयमा- युपो भागमिति रागक्षयावधि वानप्रस्थकालोपलक्षणार्थम् । अतएव शङ्खलिखितौ