पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ मनुस्मृतिः । [ अध्यायः ५

मार्जनमिति ॥ चमसानां ग्रहाणां चान्येपां यज्ञपात्राणां पूर्व पाणिना मार्जनं कार्य पश्चात्प्रक्षालनेन यज्ञे कर्तव्ये शुद्धिर्भवति ॥ ११६ ॥

चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ११७ ॥

चरूणामिति ॥ स्नेहाक्तानां चरखुगादीनामुष्णजलेन शुद्धिः । स्नेहाद्ययुक्तानां तु जलमात्रेणैव शुद्धिर्यज्ञार्थम् ॥ ११७ ॥

अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ ११८॥

अद्भिस्त्विति ॥ बहूनां धान्यानां वस्त्राणां च चाण्डालाधुपघाते जलेन प्रोक्षणाच्छुद्धिः । बहुत्वं च पुरुपभारहार्याधिकत्वमिति व्याचक्षते । तदल्पानां तु प्रक्षालनाच्छुद्धिर्मन्वादिभिरुपदिश्यते ॥ ११८ ॥

चेलवच्चर्मणां शुद्धिर्वैदलानां तथैव च।
शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते ॥ ११९ ।।

चेलवदिति ॥ स्पृश्यपशुचर्मणां वंशादिदलनिर्मितानां च वस्त्रवच्छुद्धिर्भवति । शाकमूलफलानां च धान्यवच्छुद्धिः ॥ ११९ ॥

कौशेयाविकयोरूपैः कुतपानामरिष्टकैः ।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ १२० ॥

कौशेयेति ॥ कृमिकोशोद्भवस्य वस्त्रस्य, मेषादिलोमप्रभवस्य कम्बलादेः, ऊपैः क्षारमृत्तिकाभिः, कुतपानां नेपालकम्बलानामरिष्टकैररिष्टचूर्णैः, अंशुपट्टानां पशाकानां बिल्वफलैः, क्षौमाणां दुकूलानां क्षुमावल्कलभवानां वस्त्राणां तु पिष्टश्वेतसर्षपप्रक्षालनाच्छुद्धिः ॥ १२० ॥

क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्य च ।
शुद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा ॥ १२१॥

क्षौमवदिति ॥ शङ्खस्य पशुशृङ्गाणां स्पृश्यपश्वस्थिभवस्य गजादिदन्तस्य च क्षौमवरिपष्टश्वेतसर्पपकल्केन गोमूत्रजलयोरन्यतरयुक्तेन शास्त्रविदा शुद्धिः कर्तव्या ॥ १२५ ॥

प्रोक्षणात्तृणकाष्ठं च पलालं चैव शुद्ध्यति ।
मार्जनोपाजनैवेश्म पुनःपाकेन मृन्मयम् ॥ १२२ ॥

प्रोक्षणात्तृणकाष्टं चेति ॥ तृणकाष्टपलालं च चाण्डालादिस्पर्शदूषितं प्रोक्षणेन

शुद्यति । तृणपलालसाहचर्यादिदमिन्धनादिकाष्ठविपयम् । दारवाणां च तक्षणमिति निर्मितदारुमयगृहपात्रविषयम् । गृहमुदक्या निवासादिदूपितं मार्जनगोमयाद्युपलेपनेन । मृन्मयभाण्डमुच्छिष्टादिस्पर्शदूपितं पुनःपाकेन शुधति ॥ १२२ ॥