पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्दर्युमुक्तावलीसंवलिता। १९७ त्यस्य प्रदर्शनार्थमाचार्यादीन्पञ्च मृतान्निर्हत्य ब्रह्मचारी न लुप्तवतो भवति । एवं- चान्यानिहत्य व्रतलोपो भवतीति गम्यते । आचार्य स्वमित्यभिधानात् 'गुरोर्गुरी सन्निहिते गुरुववृत्तिमाचरेत्' इति न्यायान्नाचार्याचार्यमपि । त्वमिति सर्वत्र संबध्यते । तेनोपाध्यायोपाध्याचमपि निहत्य व्रतलोप एव ॥ ९१ ॥ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ ९२ ॥ दक्षिणेनेति ॥ अमाङ्गलिकत्वादत्यन्तापकृष्टवक्रमेणाभिधानम् । शूद्रं मृतं दक्षिणपुरद्वारेण निर्ह रेत् । द्विजातीन्पुनर्यथायोगं यथावृत्त्यापकृष्टवैश्यक्षत्रियविन- क्रमेगैव पश्चिमोत्तरपूर्वद्वारेण निर्हरेत् ॥ २२ ॥ न राज्ञामघदोषोऽस्ति तिनां न च सत्रिणाम् । ऐन्द्रं स्थानमुपासीना नभूता हि ते सदा ।। ९३ ॥ न राज्ञामिति ॥ राज्ञामभिपिन्तक्षत्रियाणां सपिग्डमरणादाबगौचदोषो ना- स्ति ! यतो राजान ऐन्द्रं स्थानं राज्याभिषेकायमाथिपत्यकारणं प्राप्ताः । व्रतिनो ब्रह्मचारिणश्चान्द्रायणादिवतकारिणश्च, सत्रिणी गवामयनादियागप्रवृत्ताः। यतो ब्रह्मभूतास्ते ब्रह्मेव निष्पापा । अशौचालावश्चार्य कर्म विशेपे । तदाह विष्णु:-- 'अशौचं न राज्ञां राजकर्मणि न अतिनां व्रते न लत्रिणां सत्रे'। राजकर्मणि व्यवहारदर्शनशान्तिहोमादिकर्मणि ॥ १३ ॥ राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ ९४ ।। राज्ञ इति ॥ महात्मन इदं स्थानं महाल्मिकं राज्यपदाख्यं सर्वाधिपत्यलक्षण नहात्मैव प्राचीनपुण्यराज्यमासादयति तस्मिन्वर्तमानस्य सद्यःशौचमुपदिश्यते । नतु राज्यप्रच्युतस्य क्षत्रियजातेरपि । अनजातिरविवक्षितेत्यनेन लोकेन दर्शितम्। यतो ज्यायनिरूपणेन दुर्भिक्षेऽन्नड़ानेनोपसर्गेषु शान्तिहोमादिना प्रजारक्षार्थ राज्यासनेप्ववस्थानमशौचाभावे कारणम् । तच्चाक्षत्रियाणामपि तत्कार्यकारिणां विप्रवैश्यशूद्राणामविशिष्टम् । अतएव सोमकार्यकारिणि पालचमसे सोमधर्मा अत- एव ब्रीहिधर्मान्विततया श्रुतमप्यवधातादि तत्कार्यकारित्वस्य विवक्षितत्वात्प्रकृती यवे विकृतौ च नीवारादिपु संबध्यत इति कर्ममीमांसायां तत्तदधिकरणेषु निरणायि ॥ ९४॥ डिभाहवहतानां च विद्युता पार्थिवेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥९५॥ डिभाहव इति ॥ डिभाहवो नृपरहितयुद्धं तत्र हतानां, विद्युता वज्रेण, पार्थि- चेन वधाहेऽपराधे हते, गोब्राह्मणरक्षणार्थ विनापि युद्धं जलाग्निव्याघ्रादिभिर्ह-