पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [अध्यायः ५ बाल इति ॥ बालेऽजातदन्ते मृते जातदन्ते 'नृणामकृतचूडानां' इत्येकाहोरा- त्राभिधानाद्देशान्तरस्थे च सपिण्डे मृत इत्येकाहाशौचविषयम् । पूर्वश्लोके दशा- हाशौचिनख्यहविधानात्पृथपिण्डे समानोदके विरात्रनुत । तत्र त्रिरात्रव्यपगमे सर्वेप्वेषु सचैलं स्नात्वा सद्यो विशुद्धो भवति ॥ ७८ ॥ अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्वादशुचिविप्रो यावत्तत्यादनिर्दशम् ॥ ७९ ॥ अन्तर्दशाह इति ॥ दशाहादिमध्ये यदि पुनर्मरणे मरणं जनने जननं स्यात्पुनः- शब्दात्सजातीयावगमात्तदा तावत्कालमेव विप्रादिरशुद्धः स्यात् । यावत्पूर्वजातद- शाहाद्यशौचं नापगतं स्यात्तावत्पूर्वाशौचव्यपगमेनैव द्वितीयेऽपि मृतके सूतके च शुद्धिरित्यर्थः ॥ ७९ ॥ त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पत्न्यां दिवारात्रमिति स्थितिः॥ ८० ॥ त्रिरात्रमिति ॥ आचार्ये मृते सति शिष्यस्य त्रिरात्रमाशौचं वदन्ति । तत्पुत्रप- त्योश्च मृतयोरहोरात्रमित्येषा शास्त्रमर्यादा ॥ ८० ॥ श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यविग्वान्धवेषु च ॥ ८१ ॥ श्रोत्रिय इति ॥ वेदशास्त्राध्यायिन्युपसंपन्ने मैत्रादिना तत्समीपवर्तिनि । तद्- हवासिनीत्यर्थः । तस्मिन्मृते त्रिरात्रेण शुद्धो भवति । मानुलविशिष्यादिषु पक्षिणीरात्रिं व्याप्याशौचम् । द्वे अहनी पूर्वोत्तरे पक्षाविव यस्याः सा पक्षिणी ॥ ८ ॥ प्रेते राजनि सज्योतिर्यस्य स्थाद्विषये स्थितः । अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ ८२ ॥ प्रेते राजनीति ॥ यस्य देशे ब्राह्मणादिः स्थितस्तस्मिन्नाजनि कृताभिषेके क्षत्रिये मृते सज्योतिराशौचं स्यात् । सह ज्योतिषा वर्तत इति सज्योतिः । यदि दिवा मृतस्तदा यावत्सूर्यज्योतिस्तावदाशौचं, यदि रात्रौ मृतस्तदा यावत्तारकाज्यो- तिस्तावदाशौचम् । श्रोत्रिये त्रिरात्रमुक्तम् । अश्रोत्रिये पुनस्तद्गृहे मृते कृत्स्नं दिन- मात्रमाशौचं नतु रात्रावपि । रात्रौ मृते रात्रावेवेत्यवगन्तव्यम् । साङ्गवेदाध्या- यिनि 'स्वल्पं वा बहु वा यस्य' इत्येतन्निर्दिष्टे गुरावस्यहर्मात्रमेव ॥ ८२ ॥ शुद्धयेद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ८३ ॥ शुद्ध्येदिति ॥ उपनीतसपिण्डमरणे संपूर्णकालीनजनने च वृत्तस्वाध्यायादिर- हितब्राह्मणो दशाहेन शुद्धो भवति । क्षत्रियो द्वादशाहेन । वैश्यः पञ्चदशाहेन । शूद्रो मासेन । तस्य चोपनयनस्थाने विवाहः ॥ ८३ ॥