..
अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता।
१९३
शुयन्तीति व्याचक्षाते । अत्रच व्याख्याने पुत्रवत्कन्यायामपि चूडाकरणादूर्व
मरणे त्र्यहाशौचं स्यात् । तच्चादियुराणाद्यनेकवचनविरुद्धम् ॥ ७२ ॥
अक्षारलवणान्नाः स्युनिमजेयुश्च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥ ७३ ।।
अक्षारेति ॥ क्षारलवणं कृत्रिमलवणं तद्रहितमन्नमनीयुः । त्रिरात्रं नद्यादौ
स्नानमाचरेयुः । मांसं च न भक्षयेयुः । भूमौ चैकाकिनः शयनं कुर्युः ॥ ७३ ॥
सन्निधावप कल्पः शाबाशौचस कीर्तितः।
असनिधाक्यं ज्ञेयो विधिः संवन्धिवान्धवैः ॥ ७४ ॥
सविधाविति ॥ तस्य सन्निधायकस्थानावस्थानादह.परिज्ञाने शावाशौचस्य
विधिरयमुक्तः । देशान्तरावस्थानादज्ञाने सत्ययं वक्ष्यमाणो विधिः संबन्धिबा-
न्धवैतिव्यः । संबन्धिनः सपिण्डाः । समानोदका बान्धवाः ॥ ७४ ॥
विगतं तु विदेशवं शृणुयायो यनिर्दशम् ।
यच्छेषं दशराबस्स तावदेवाशुचिर्भवेत् ।। ७५ ॥
विगतं त्विति ॥ विगतं मृतं विदेशस्थं विप्रकृष्टदेशस्थमनिर्दशमनिर्गतदशा-
हायशौचकाल यः शृणोति स यदवशिष्टं दशरानाधशौचस्य तावत्कालमविशुद्ध
भवति । विगतमित्युपलक्षणम् जननेऽप्येतदवगन्तव्यम् । तथाच बृहस्पतिः-
'अन्य देशमृतं ज्ञातिं श्रुत्वा वा पुत्रजन्म च । अनिर्गते दशाहे तु शेषाहोभिर्वि-
शुद्ध्यति' ॥ ७५ ॥
अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥ ७६ ॥
अतिक्रान्त इति ॥ 'नाशौचं प्रसवस्यास्ति व्यतीतेपु दिनेष्वपि' इति देवलव-
चनान्मरणविषयं वचनमिदम् । सपिण्डमरणे दशाहाशौचेऽतिक्रान्ते त्रिरात्रम-
शुद्धो भवति, संवत्सरे पुनरतीते स्नात्वैव विशुद्ध्यति । एतच्चाविशेषेणाभिधानाच्चा-
तुर्वर्ण्यविषयम् ॥ ७६ ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलमाप्लुत्य शुद्धो भवति मानवः॥ ७७॥
निर्दशमिति ॥ दशाहाशौचव्यपगमे कर्मानहत्वलक्षणस्य त्र्यहाशौचस्योक्तत्वा-
त्तदङ्गास्पर्शविषयम् । निर्गतदशाहसपिण्डमरणं श्रुत्वा पुत्रस्य जन्म च श्रुत्वा
सचैलं स्नात्वा स्पृश्यो भवति ॥ ७७ ॥
बाले देशान्तरस्थे च पृथपिण्डे च संस्थिते ।
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥ ७८ ॥
मनु० १७
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
