पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रेता च, १८८ मनुस्मृतिः। [ अध्यायः ५ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः॥५१॥ अनुमन्तेति ॥ यद्नुमतिव्यतिरेकेण हननं कर्तुं न शक्यते सोऽनुमन्ता, विश- सिता अगानि यः कर्तर्यादिना पृथक्पृथक् करोति, क्रयविक्रयी भांसस्य क्रेता संस्कर्ता पाचकः, उपहर्ता परिवेपका, खादको भक्षयिता । गोवि- न्दराजन्तु यः क्रीत्वा विक्रीणाति स क्रयविक्रयीत्येकमेवाह । तदयुक्तम् । 'हननेन तथा हन्ता धनेन क्रायकस्तथा । विक्रयी तु धनादानात्संस्कर्ता तत्प्रवर्त- नात्' इति यमवचनेन पृथनिर्देशात् । घातकत्ववचनं चेदमशास्त्रीयपशुवधेऽनुम- त्यादयोऽपि न कर्तव्या इत्येवंपरम् । विधिनिषेधपरत्वाच्छास्त्रस्य । खादकादीनां पृथक्प्रायश्चित्तदर्शनात् ॥ ५१ ॥ स्वमासं परमांसेन यो वर्धयितुमिच्छति । अनभ्यर्च्य पितॄन्देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥५२ ।। स्वमांसमिति ॥ स्वशरीरमांसं परमांसेन देवपित्राद्यर्चनं विना यो वृद्धिं नेतु- मिच्छति तस्मादपरो नापुण्यकर्तास्तीत्यविधिमांसभक्षणनिन्दानुवादः ॥ ५२ इदानीमनियमिताप्रतिषिद्धमांसभक्षणस्य निवृत्तिर्धर्मायेत्येतद्दर्शयितुमाह- वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ ५३॥ वर्षे वर्ष इति ॥ यो वर्षशतं यावत्प्रतिवर्षमश्वमेधेन यजेत यश्च यावजीवं मांसं न खादति तयोः पुण्यस्य फलं स्वर्गादि तुल्यम् ॥ ५३ ॥ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥ ५४ ॥ फलमूलाशनैरिति ॥ पवित्रफलमूलभक्षणैर्वानप्रस्थभोज्यानां च नीवाराद्यन्नानां भोजनैर्न तत्फलमवाप्नोति यच्छास्त्रानियमिताप्रतिषिद्धमांसवर्जनाल्लभते ॥ ५४ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहाझ्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः॥ ५५ ॥ मांस भक्षयितेति ॥ इह लोके यस्य मांसमहमश्नामि परलोके मांस भक्षयि- ष्यतीत्येतन्मांसशब्दस्य निरुक्तं पण्डिताः प्रवदन्ति इति मांसशब्दस्य निर्वच- नमवैधमांसभक्षणपापफलकथनार्थम् ॥ ५५ ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥५६॥ न मांसभक्षण इति ॥ ब्राह्मणादीनां वर्णानां यथाधिकारमविहिताप्रतिषिद्धभ- क्षणादौ न कश्चिद्दोषः । यस्मात्प्राणिनां भक्षणपानमैथुनादौ प्रवृत्तिः स्वाभाविकोऽयं