पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। न प्रवर्तते । दृष्टान्तीकृतब्राह्मणहननस्याप्यधर्मत्वे शास्त्रमेवोपजीव्यम् । वेदाद्धर्मों हि निर्बभौ यस्मादनन्यप्रमाणको धर्मों वेदादेव निःशेषेण प्रकाशतां गतः ॥ ४ ॥ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। स जीवंश्च मृतश्चैव न कचित्सुखमेधते ॥ ४५ ॥ योऽहिंसकानीति ॥ योऽनुपघातकान्प्राणिनः हरिणादीनात्मसुखेच्छया मार- यति स इह लोके परलोके च न सुखेन वर्धते ॥ ४५ ॥ यो बन्धनवधक्लेशान्प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ ४६ ॥ यो बन्धनेति ॥ यो बन्धनमारणक्लेशादीन्प्राणिनां कर्तुं नेच्छति स सर्वहित- प्राप्तीच्छुरनन्तसुखं प्राप्नोति ॥ ४६ ॥ यद्ध्यायति यत्कुरुते धृतिं वनाति यत्र च । तदवाप्नोत्ययत्नेन यो हिनस्ति न किंचन ॥४७॥ अन्यच्च । यद्ध्यायनीति ॥ यञ्चिन्तयति धर्मादिकमिदं मेऽस्त्विति, यच्च श्रेयः- साधनं कर्म करोति, यत्र च परमार्थध्यानादौ शृति वनाति, तत्सर्वमक्लेशेन लभते । य उपघातनिमित्तं दंशमशकाद्यपि न व्यापादयति ॥ ४७ ॥ मांसभक्षणप्रसङ्गेन हिंसागुणदोपावभिधाय पुनः प्रकृतमांसाभक्षणमाह- नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ ४८ ॥ नाकृत्वेति ॥ प्राणिहिंसाव्यतिरेकण न कचिन्मांससुत्पद्यते । प्राणिवधश्च न स्वर्गनिमित्तं नरकहेतुरेव यस्मात्तस्मादविधिना मांसं न भक्षयेदिति ॥ ४८ ॥ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । असमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ४९ ॥ समुत्पत्तिं चेति ॥ शुक्रशोणितपरिणामात्मिकां समुत्पत्तिं घृणाकरी विज्ञाय प्राणिनां वधबन्धौ च क्रूरकर्मरूपी निरूप्य विहितमांसभक्षणादपि निवर्तेत किमु- ताविहितमांसभक्षणादित्यविधिना मांसभक्षणनिन्दानुवादः ॥ ४९ ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥५०॥ न भक्षयतीति ॥ उक्तविधिव्यतिरेकेण यो न मांसं भक्षयति । पिशाचवदिति यथा पिशाचो भक्षयति तथा नेति व्यतिरेके दृष्टान्तः । स लोकस्य प्रियो भवति रोगैश्च न बाध्यते । तस्मादवैधमांसभक्षणायाधयो भवन्तीति दर्शितम् ॥ ५० ॥