पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। नाद्यादिति ॥ मांसभक्षणानुष्ठानदोपज्ञो द्विजातिरनापदि तत्तद्देवाधर्चनविधानं विना न मांसं भक्षयेत् । यस्मादविधानेन यो मांसं खादति स मृतः सन्यन्मांसं भक्षितं तैः प्राणिभिः परलोके स्वरक्षणाक्षमः खाद्यत इति सर्वश्लोकानुवादः ॥३३ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥३४॥ न तादृशमिति ॥ मृगवधजीविनो व्याधादेर्धननिमित्तं मृगाणां हन्तुर्न तथा- विधं पापं भवति, यादृशमदेवपितृशेषभूतमांसानि खादतः परलोके भवतीति पूर्वानुवाद एव ॥ ३४ ॥ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ ३५ ॥ नियुक्तस्त्विति ॥ श्राद्धे मधुपर्के च यथाशास्त्रं नियुक्तः सन्यो मनुष्यो मांसं न खादति स मृतः सन्नेकविंशतिजन्मानि पशुर्भवति । 'यथाविधि नियुक्तस्तु' इत्ये- तन्नियमातिक्रमफलविधानमिदम् ॥ ३५ ॥ असंस्कृतान्पशून्मत्र धाद्विप्रः कदाचन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः॥ ३६ ॥ असंस्कृतानिति ॥ वेदविहितमन्त्रवत्योक्षणादिसंस्कारशून्यान्पशून्विप्रादिः कदा- चिन्नाश्नीयात् । शाश्वतं प्रवाहानादितया नित्यं पशुयागादिविधिमास्थितो मन्त्रसं- स्कृतानेबानीयादिति । 'प्रोक्षितं भक्षयेन्मांसम्' इत्येतस्यानुवादार्थमेतत् ॥३६॥ कुर्याद्धृतपशु सङ्गे कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥ ३७॥ कुर्यादिति ॥ सङ्ग आसक्तौ पशुभक्षणानुरागेण धृतमयीं पिष्टमयीं वा पशुप्रति- कृतिं कृत्वा खादयेन्न पुनर्देवताधुढेशं विनैव पशून्कदाचिदपि हन्तुमिच्छेत् ॥३७॥ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ३८ ॥ यावन्तीति ॥ देवताद्युद्देशमन्तरेणात्मार्थं यः पशून्हन्ति स वृथापशुघ्नो मृतः सन्यावत्संख्यानि पशुरोमाणि तावत्संख्याभूतं जन्मनि जन्मनि मारणं प्राप्नोति । तस्मादृथा पशुं न हन्यात् । तावत्कृत्व इति वत्त्वन्तात्क्रियाभ्यावृत्तिगणने कृत्व- सुच् प्रत्ययः । इह हशब्द आगमप्रसिद्धिसूचनार्थः ॥ ३८ ॥ यज्ञार्थे तु पशुवधे न दोष इत्याह- यज्ञार्थ पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः॥ ३९ ॥ .